________________
१३८
तत्र मैत्रीस्वरूपमाह
मा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥४ / ११८ ॥
व्याख्या - कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि दुःखनिबन्धनानि मा कार्षीत्, पापकरणनिषेधात् मा च भूत् कोऽपि दुःखितः । जगदिति तांस्तान् देवमानुषतिर्यग्नारकपर्यायानत्यर्थं गच्छतीति जगत् प्राणिजातं । अपिशब्दान्नैकः कश्चित् किं तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिर्मैत्रीशब्देनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात्, तस्मादशेषसत्त्वविषया मैत्री । एवं कृतापकाराणामपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहमिति मैत्रीभावना ॥४/११८॥
अथ प्रमोदस्वरूपमाह -
--
चतुर्विधं धर्मध्यानम्
अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् ।
"
गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥४ / ११९॥
व्याख्या अपास्ता अशेषा दोषाः प्राणिवधादयो यैस्तेषां । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषां । अनेन ज्ञानक्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकारः - " नाणकिरियाहि मोक्खो" इति (ज्ञानक्रियाभ्यां मोक्षः) एवंविधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शमदमौचित्यगाम्भीर्यधैर्यादिषु यः पक्षपातो विनयप्रयोगवन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनः प्रहर्षः स प्रमोदः प्रकीर्तितः ॥४/११९॥
-
अथ कारुण्यस्वरूपमाह
दीनेष्वार्त्तेषु भीतेषु याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ ४ / १२०॥
व्याख्या - दीनेषु मतिश्रुताज्ञानविभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्त्तेषु नवनवविषयार्जनपूर्वार्जितपरिभोगजनिततृष्णाग्निना दन्दह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीतवृत्तिषु अर्थार्जनरक्षणव्ययनाशपीडावत्सु च । तथा भीतेषु विविधदुःखपीडिततया अनाथकृपणबालवृद्धप्रेष्यादिषु सर्वतो