SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुर्विधं धर्मध्यानम् १३७ विवागविजते संठाणविजते ॥ (स्था०सू० २४७) (छाया- धर्म्यं ध्यानं चतुर्विधं चतुष्पदावतारं प्रज्ञप्तम्, तद्यथा-आज्ञाविचयः अपायविचयः विपाकविचयः संस्थानविचयः ॥) व्याख्या - अथ धर्म्यं चतुर्विधमिति स्वरूपेण चतुर्षु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् चउप्पडोयारमिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति, 'आणाविजए' त्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा प्रवचनं सा विचीयतेनिर्णीयते पर्यालोच्यते वा यस्मिस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयम्, एवं शेषाण्यपि, नवरं अपाया-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः- फलं कर्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च - "आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषहाद्यैरपायस्तु ॥१॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्विति ॥२॥"' अथवा मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यभेदात् चतुर्विधं धर्मध्यानम् । यदुच्यते योगशास्त्रे तद्वत्तौ च - 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत् । धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥४/११७॥ व्याख्या - "जिमिदाच् स्नेहने', मे(मि)द्यति स्निह्यतीति मित्रं, तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । प्रमोदनं प्रमोदो वदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्वनुकम्पा । रागद्वेषयोरन्तरालं मध्यं, तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्मनि नियोजयेत् । किमर्थं ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनानान्तरेण सन्धानं कर्तुं । कुत इत्याह - तद्धि तस्य रसायनं तत् मैत्र्यादियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुट्यतो रसायनमिव रसायनम् ॥४/११७।।
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy