SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ चतुर्विधं धर्मध्यानम् तत्करणकारणानुमतिविषयम्, किमिदमिति ? अत आह-अनुचिन्तनं पर्यालोचनमित्यर्थः । चतुर्भेदम् इति हिंसानुबन्ध्यादिचतुष्प्रकारम्, रौद्रध्यानमिति गम्यते । अधुनेदमेव स्वामिद्वारेण निरूपयति - अविरताः सम्यग्दृष्टयः इतरे च, देशासंयताः श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरत-देशासंयता एव जना अविरतदेशासंयतजनाः, तेषां मनांसि चित्तानि, तैः संसेवितं सञ्चिन्तितमित्यर्थः, मनोग्रहणमत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, अधन्यमित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः ॥२३॥ अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह - एयं चव्विहं राग-दोस-मोहांकियस्स जीवस्स । रोहज्झाणं संसारवद्धणं नरयगइमूलं ॥२४॥ (छाया- एतत् चतुर्विधं राग-द्वेष-मोहाङ्कितस्य जीवस्य । रौद्रध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥२४॥) व्याख्या - 'एयं०' गाहा । एतत् अनन्तरोक्तम्, चतुर्विधं चतुष्प्रकारं राग-द्वेषमोहाङ्कितस्य, आकुलस्य वेति पाठान्तरम् । कस्य ? जीवस्य आत्मनः किम् ? रौद्रध्यानमिति, इयमेव चात्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह - संसारवर्द्धनम् ओघतः, नरकगतिमूलं विशेषत इति गाथार्थः ॥२४॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोय-नील-कालालेसाओ तिव्वसंकिलिट्ठाओ। रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ ॥२५॥ (छाया- कापोत-नील-कष्णलेश्याः तीव्रसङ्क्लिष्टाः । रौद्रध्यानोपगतस्य कर्मपरिणामजनिताः ॥२५॥) . व्याख्या - कावोय० गाहा । पूर्ववद्, एतावांस्तु विशेषः यत् तीव्रसङ्क्लिष्टा अतिसङ्क्लिष्टा एता इति ॥२५॥' धर्मध्यानं चतुर्विधम् । तद्यथा १ आज्ञाविचयः, २ अपायविचयः, ३ विपाकविचयः, ४ संस्थानविचयश्च । उक्तञ्च स्थानाङ्गसूत्रे तद्वृत्तौ च - 'धम्मे झाणे चउव्विहे चउप्पडोयारे पं०, तं० आणाविजते अवायविजते
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy