________________
चतुर्विधं रौद्रध्यानम्
१३५
गम्यते किम् ? भूतोपहननमनार्यम् इति हन्यतेऽनेनेति हननम्, उप सामीप्येन हननम् उपहननम्, भूतानामुपहननं भूतोपहननम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्यं नाऽऽर्यमनार्यम्, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित्तम् रौद्रध्यानमिति गम्यते, परेषां द्रव्यं परद्रव्यं सचित्तादि, तद्विषयं हरणचित्तं परद्रव्यहरणचित्तम्, तदेव विशिष्यते किम्भूतं तदिति ? अत आह - परलोकापायनिरपेक्षम् इति तत्र परलोकापायाः - नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ॥२१॥
उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमुपदर्शयन्नाह
सद्दादिविसयसाहणधणसंरक्खणपरायणमणिट्टं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥२२॥
(छाया - शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् ॥२२॥)
व्याख्या - 'सद्दादिविसय ० ' गाहा । शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषां साधनं कारणम् शब्दादिविषयसाधनं तच्च तद्धनं च शब्दादिविषयसाधनधनम्, तत्संरक्षणे तत्परिपालने परायणम् उद्युक्तमिति विग्रहः, तथाऽनिष्टम् सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते सर्वेषामभिशङ्कनेन 'न विद्मः कः किं करिष्यती' त्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयत्यात्मानमिति कलुषाः कषायास्तैश्चाकुलं व्याप्तं यत्तत् तथोच्यते, चित्तम् अन्तःकरणम्, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ २२॥
साम्प्रतं विशेषाभिधानगर्भमुपसंहरन्नाह
इय करण-कारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरय-देसासंजयजणमणसंसेवियमहणणं ॥ २३॥
(छाया - इति करण - कारणानुमतिविषयमनुचिन्तनं चतुर्भेदम् । अविरत-देशासंयतजनमनःसंसेवितमधन्यम् ॥२३॥)
व्याख्या
'इय०' गाहा । 'इय' एवं करणं स्वयमेव, कारणमन्यैः कृतानुमोदनमनुमतिः, करणं च कारणं चानुमतिश्च करणकारणानुमतयः, एता एव विषयो गोचरो यस्य
-