________________
१३४
चतुर्विधं रौद्रध्यानम् पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं ।
मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥२०॥ (छाया- पिशुनासभ्यासद्भूत-भूतघातादिवचनप्रणिधानम् ।
मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य ॥२०॥) व्याख्या - "पिसुण०' गाहा । पिशुना-ऽसभ्या-ऽसद्भूत-भूतघातादिवचनप्रणिधानम् इत्यत्रानिष्टस्य सूचकं पिशुनं 'पिशुनमनिष्टसूचकं विदुः' इति वचनात् । सभायां साधु सभ्यं न सभ्यमसभ्यं जकार-मकारादि ।
न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथा अभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति । तत्राभूतोद्भावनं यथा सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति ।
भूतानां सत्वानामुपघातो यस्मिन् तद् भूतोपघातम् छिन्द्धि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रदर्शनार्थः, यथा पिशुनमनेकधाअनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानलक्षणम्, रौद्रध्यानमिति प्रकरणाद्गम्यते । ___ किंविशिष्टस्य सत इति ? अत आह - माया निकृतिः, साऽस्यास्तीति मायावी तस्य मायाविनो वणिजादेः, तथा अतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्याऽनेनाशेषेष्वपि प्रवृत्तिमप्याह, तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि - गुणरहितमप्यात्मानं यो गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः ॥२०॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति
तह तिव्वकोह-लोहाउलस्स भूओवघायणमणज्जं ।
परदव्वहरणचित्तं परलोयावायनिरविक्खं ॥२१॥ (छाया- तथा तीव्रक्रोध-लोभाकुलस्य भूतोपघातनमनार्यम् ।
परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् ॥२१॥) व्याख्या - 'तह तिव्व०' गाहा । तथाशब्दो दृढाध्यवसानप्रकारसादृश्योपदर्शनार्थः । तीव्रौ उत्कटौ च तौ क्रोधलोभौ च तीव्रक्रोधलोभौ ताभ्यामाकुलोऽभिभूतस्तस्य, जन्तोरिति