SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चतुर्विधं रौद्रध्यानम् १३३ "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" एताश्च कर्मोदयायत्ता इति गाथार्थः ॥१४॥' रौद्रध्यानमपि चतुर्विधम् । तद्यथा १ हिंसानुबन्धि, २ मृषानुबन्धि, ३ स्तेयानुबन्धि, ४ विषयसंरक्षणानुबन्धि च । एतेषां स्वरूपं ध्यानशतकतद्वृत्तिभ्यामेवं ज्ञेयम् - 'उक्तमार्तध्यानम्, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च । उक्तं च भगवतोमास्वातिवाचकेन"हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रम् ।" [त. सू० ९-३६] इत्यादि । तत्राऽऽद्यभेदप्रतिपादनायाह - सत्तवह-वेह-बंधण-डहणंऽकण-मारणाइपणिहाणं । अइकोहग्गहघत्थं निग्घिणमणसोऽधमविवागं ॥१९॥ (छाया- सत्त्ववध-वेध-बन्धन-दहनाङ्कन-मारणादिप्रणिधानम् । __ अतिक्रोधग्रहग्रस्तं निघृणमनसोऽधमविपाकम् ॥१९॥) व्याख्या - सत्त० गाहा । सत्त्वा एकेन्द्रियादयस्तेषां वध-वेध-बन्धन-दहना-ऽङ्कनमारणादिप्रणिधानम्, तत्र वधः ताडनं करकशलतादिभिः, वेधस्तु नासिकादिवेधनं कीलकादिभिः, बन्धनं संयमनं रज्जु-निगडादिभिः, दहनं प्रतीतमुल्मुकादिभिः, अङ्कन लाञ्छनं श्व-शृगालचरणादिभिः, मारणं प्राणवियोजनमसि-शक्ति-कुन्तादिभिः, आदिशब्दादागाढपरितापन-पाटनादिपरिग्रहः, तेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यावसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते । किविशिष्टं प्रणिधानम् ? अतिक्रोधग्रहग्रस्तम् अतीवोत्कटो यः क्रोधः-रोषः, स एवापायहेतुत्वाद् ग्रह इव ग्रहस्तेन ग्रस्तम्-अभिभूतम्, क्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते । किंविशिष्टस्य सत इदमिति ? अत आह - निघृणमनसो निर्गुणं-निर्गतदयं मनःचित्तमन्तःकरणं यस्य निघृणमनास्तस्य, तदेव विशिष्यते - अधमविपाकम् इति अधमः जघन्यो नरकादिप्राप्तिलक्षणो विपाक:-परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥१९॥ उक्तः प्रथमभेदः, साम्प्रतं द्वितीयमभिधातुकाम आह
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy