________________
१३२
चतुर्विधं रौद्रध्यानम् व्याख्या - ‘एयं०' गाहा ॥ एतद् अनन्तरोदितं चतुर्विधं चतुष्प्रकारं राग-द्वेषमोहाङ्कितस्य रागादिलाञ्छितस्येत्यर्थः, कस्य ? जीवस्य आत्मन आर्तध्यानमिति, गाथाचतुष्टयस्यापि क्रिया, किंविशिष्टमिदमिति ? अत आह-संसारवर्द्धनमोघतस्तिर्यग्गतिमूलं विशेषत इति गाथार्थः ॥१०॥
आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ? उच्यते-बीजत्वात् । बीजत्वमेव दर्शयन्नाह
रागो दोसो मोहो य जेण संसारहेयवो भणिया।
अटुंमि य ते तिण्णि वि तो तं संसारतरुबीयं ॥१३॥ (छाया- रागो द्वेषो मोहश्च येन संसारहेतवो भणिताः ।
आर्ते च ते त्रयोऽपि ततस्तत् संसारतरुबीजम् ॥१३॥) व्याख्या - 'रागो०' गाहा ॥ रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः परममुनिभिरिति गम्यते, आर्ते च आर्तध्याने च ते त्रयोऽपि रागादयः सम्भवन्ति, यत एवं ततस्तत् संसारतरुबीजं भववृक्षकारणमित्यर्थः ।
आह - यद्येवमोघत एव संसारतरुबीजम्, ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ? उच्यते - तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति । अन्ये तु व्याचक्षते - तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥१३॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते -
कावोय-नील-कालालेस्साओ णाइसंकिलिट्ठाओ।
अट्टज्झाणोवगयस्स कम्मपरिणामजणिआओ ॥१४॥ (छाया- कापोत-नील-कृष्णलेश्या नातिसङ्क्लिष्टाः। .
आर्तध्यानोपगतस्य कर्मपरिणामजनिताः ॥१४॥) व्याख्या - 'कावोय०' गाहा । कापोत-नील-कृष्णलेश्याः, किम्भूताः ? नातिसक्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आहआर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एताः ? इत्यत आह-कर्मपरिणामजनिताः, तत्र -