________________
चतुर्विधमार्त्तध्यानम् भिलाष:-कथं ममैभिविषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति ।
किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह - रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य तद्भावितमूर्तेरिति गाथार्थः ॥८॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह -
देविंद-चक्कवट्टित्तणाइगुण-रिद्धिपत्थणामईयं ।
अहमं नियाणचिंतणमण्णाणाणुगयमच्चंतं ॥९॥ (छाया- देवेन्द्र-चक्रवर्तित्वादिगुण-द्धिप्रार्थनामयम् ।
__ अधमं निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥९॥) व्याख्या - 'देविंद०' गाहा ॥ दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः चमरादयस्तथा चक्रं-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो भरतादयः, आदिशब्दाद् बलदेवादिपरिग्रहः, अमीषां गुणऋद्धी देवेन्द्रचक्रवर्त्यादिगुणर्की, तत्र गुणाः सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याञ्चामयमित्यर्थः,
किं तत् ? अधमं जघन्यं निदानचिन्तनं निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह - किमितीदमधमम् ? उच्यते - यस्मादज्ञानानुगतमत्यन्तम्, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च
"अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते,
कामे सक्ति दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति हि महन्मोक्षकाङ्क्षकतानम्,
नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ॥१॥"[ ] इति गाथार्थः ॥९॥ उक्तश्चतुर्थभेदः, साम्प्रतमिदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह -
एयं चउव्विहं राग-दोस-मोहंकियस्स जीवस्स ।
अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥१०॥ (छाया- एतत् चतुर्विधं राग-द्वेष-मोहाङ्कितस्य जीवस्य ।
आर्त्तध्यानं संसारवर्धनं तिर्यग्गतिमूलम् ॥१०॥)