________________
१३०
चतुर्विधमार्तध्यानम् तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्तस्य तदाक्रान्तमूर्तेरिति गाथार्थः ॥६॥ उक्तः प्रथमभेदः, अधुना द्वितीयमभिधित्सुराह
तह सूलसीसरोगाइवेयणाए विजोगपणिहाणं। ...
तदसंपओगचिंता तप्पडियाराउलमणस्स ॥७॥ (छाया- तथा शूलशीर्षरोगादिवेदनायाः वियोगप्रणिधानम् ।
तदसम्प्रयोगचिन्ता तत्प्रतिकाराकुलमनसः ॥७॥) व्याख्या - 'तह०' गाहा ॥ तथा इति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेषरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना शूलशिरोरोगादिवेदना, वेद्यत इति वेदना तस्याः, किम् ? वियोगप्रणिधानं वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः ।
अनागतमधिकृत्याह-तदसम्प्रयोगचिन्ता इति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता-कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यात् ? इति, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहेणातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतैव ।
किंविशिष्टस्य सत इदं वियोगप्रणिधानाद्यत आह-तत्प्रतिकारे वेदनाप्रतिकारे चिकित्सायामाकुलं व्यग्रं मनः अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यार्तध्यानमिति गाथार्थः ॥७॥ उक्तो द्वितीयो भेदः, अधुना तृतीयमुपदर्शयन्नाह
इटाणं विसयाईण वेयणाए य रागरत्तस्स ।
अवियोगऽज्झवसाणं तह संजोगाभिलासो य॥८॥ (छाया- इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य ।
__अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥८॥) व्याख्या - 'इट्ठाणं०' गाहा ॥ इष्टानां मनोज्ञानां विषयादीनामिति विषयाः पूर्वोक्ताः, आदिशब्दाद् वस्तुपरिग्रहः, तथा वेदनायाश्च इष्टाया इति वर्तते, किम् ? अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकालग्रहः।
तथा संयोगाभिलाषश्चेति तत्र तथेति धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगा