________________
चतुर्विधमार्त्तध्यानम्
१२९
१ आर्त्तध्यानं, २ रौद्रध्यानं, ३ धर्मध्यानं ४
ध्यानं चतुर्विधम् । तद्यथा
शुक्लध्यानञ्च । उक्तञ्च श्रमणप्रतिक्रमणसूत्रे -
-
'चउहिं झाणेहिं अट्टेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं ।' (छाया- चतुर्भिः ध्यानैः आर्तेन ध्यानेन रौद्रेण ध्यानेन धर्मेण ध्यानेन शुक्लेन ध्यानेन ।) तत्र आर्त्तध्यानं चतुर्विधम् । तथा १ इष्टवियोगचिन्ता, २ अनिष्टसम्प्रयोगचिन्ता, ३ वेदनाचिन्ता ४ निदानञ्च । एतेषां स्वरूपमित्थं प्रदर्शितं श्रीध्यानशतके तद्वृत्तौ च -
-
'साम्प्रतं यथोद्देशस्तथा निर्देश इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्द्धा । उक्तं च भगवता वाचकमुख्येन -" आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनाम् [ मनोज्ञानाम् ] ॥ निदानं च ॥" [ तत्त्वार्था०, ९ / ३१-३४] इत्यादि । तत्राऽऽद्यभेदप्रतिपादनायाह
अमणुण्णाणं सद्दाइविसयवत्थूण दोसमइलस्स । धणियं विओगचिंतणमसंपओगाणुसरणं च ॥६॥ (छाया- अमनोज्ञानां शब्दादिविषयवस्तूनां द्वेषमलिनस्य । अत्यर्थं वियोगचिन्तनमसम्प्रयोगानुसरणं च ||६||)
व्याख्या - 'अमणु० ' गाहा ॥ अमनोज्ञानाम् इति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः, न मनोज्ञानि अमनोज्ञानि तेषाम् । केषामिति अत आह-शब्दादिविषयवस्तूनाम् शब्दादयश्च ते विषयाश्च शब्दादिविषयाः, आदिग्रहणाद्वर्णादिपरिग्रहो विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा, वस्तूनि तु तदाधारभूतानि रासभादीनि ततश्च शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषाम्, किम् ? सम्प्राप्तानां सतां ' धणियं' अत्यर्थं वियोगचिन्तनं विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वियोगः स्यादिति भाव:, अनेन वर्त्तमानकालग्रहः ।
तथा सति च वियोगेऽसम्प्रयोगानुस्मरणम् कथमेभिः सदैव सम्प्रयोगाभाव इति, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासंयुक्तयोर्बहुमतत्वेनातीतकालग्रहः ।
किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य जन्तोरिति गम्यते,