SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ चतुर्विधा भावना चतुर्विधाः स्मरणादिकाश्चतुर्विधञ्च ध्यानम् 'भावोपयोगशून्याः, कुर्वन्नावश्यकीक्रियाः। देहक्लेशं लभसे, फलमाप्स्यसि नैव पुनरासाम् ॥१६४॥' भाव्यते आभिरात्मेति भावनाः । ताश्चतुर्विधाः । तद्यथा - १ ज्ञानभावना, २ सम्यक्त्वभावना, ३ चारित्रभावना ४ वैराग्यभावना च । एतासां स्वरूपमेवं निरूपितं महोपाध्यायश्रीसकलचन्द्रगणिकृतध्यानदीपिकायाम् - 'भावना द्वादशैतास्ता अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः ॥७॥ वाचना पृच्छना साधुप्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति ज्ञातव्या ज्ञानभावना ॥८॥ संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः । आस्तिक्यमनुकम्पेति ज्ञेया सम्यक्त्वभावना ॥९॥ ईर्यादिविषया यला मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्वमिति चारित्र्यभावना ॥१०॥ विषयेष्वनभिष्वङ्गः कार्यं तत्त्वानुचिन्तनम् । जगत्स्वभावचिन्तेति वैराग्यस्थैर्यभावना ॥११॥' स्मारणादिकाश्चतुर्विधाः । तद्यथा - १ स्मारणा, २ वारणा, ३ चोदना ४ प्रतिचोदना च । एतासां स्मारणादीनां स्वरूपं गच्छाचारप्रकीर्णकसप्तदशगाथावृत्तित एवं ज्ञेयम् - ' 'सारणा' हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा, उपलक्षणत्वाद्वारणा - अहितान्निवारणलक्षणा चोयणा - संयमयोगेषु स्खलितः सन्न युक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरणा, प्रतिचोदना - तथैव पुनः पुनः प्रेरणा .... ॥१७॥' गुरुर्देशनाकथाधर्मभावनास्मारणादीनां करणकारणोपदेशादिविधानेषु निपुणबुद्धिर्भवति । एकस्मिन्नालम्बने चित्तस्य निरोधो ध्यानम् । यदुक्तम् - 'उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥९/२७॥' (तत्त्वार्थाधिगमसूत्रम्)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy