SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भावधर्मः १२७ उक्तप्रकारं त्रिविधं तिस्रः विधाः प्रकाराः यस्य तत् त्रिविधं शारीरादिभेदभिन्नं तपः अनुष्ठानं सात्त्विकं सत्त्वस्य सत्त्वगुणयुक्तस्य इदं सात्त्विकं परिचक्षते कथयन्ति । कथम्भूतं तपः ? नरैः पुरुषैः परया श्रेष्ठया श्रद्धया आत्यन्तिक्या आस्तिक्यबुद्ध्या तप्तं अनुष्ठितम् । कथम्भूतैः नरैः ? अफलाकाङ्क्षिभिः फलानां आकाङ्क्षा इच्छा येषां ते फलाकाङ्क्षिणः, फलाकाङ्क्षिण न भवन्ति ते अफलाकाङ्क्षिणः, तैः अफलाकाङ्क्षिभिः । पुनः कथम्भूतैः ? युक्तैः नियतान्त:करणैः नियतान्त:करणत्वात् अफलाकाङ्क्षित्वम् ॥१७॥ सत्कारमानपूजार्थं, तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१८॥ व्याख्या - राजसं तपः आह - 'सत्कारे ति । हे पार्थ ! नरैः पुरुषैः इति शेषः । सत्कारमानपूजार्थं सत्कारः साधुवाद: 'अयं तापसः धर्मात्मा अनेन सदृशः कोऽपि नास्ति' इति साधुवादः च मानः प्रत्युत्थानाभिवादनपूर्वकसन्मानः च पूजा गोधनान्नवस्त्रादिदानपूजा सत्कारमानपूजाः सत्कारमानपूजाभ्यः इति सत्कारमानपूजार्थं चेत्यपरं दम्भेन परैः सत्कारमानपूजाविहीनोऽपि स्वयमेव अहं धर्मात्मा इति धर्मध्वजित्वेन यत् प्रसिद्धं तपःअनुष्ठानं क्रियते विद्वज्जनैः इति शेषः । तत् प्रसिद्धं तपः अनुष्ठानं इहलोके राजसं रजसः रजोगुणयुक्तस्य इदं राजसं प्रोक्तं उच्चारितं सत्कारादिकामनया कृतम् । कथम्भूतं तपः? चलं चञ्चलं अनित्यम् । पुनः कथम्भूतम् ? अध्रुवं क्षणिकं फलव्यभिचारम् ॥१८॥ मूढग्राहेणात्मनो यत्, पीडया क्रियते तपः। परस्योत्सादनार्थं वा, तत्तामसमुदाहृतम् ॥१९॥ व्याख्या - तामसं तपः आह - 'मूढग्राहेणे'ति । अविवेकिजनैः इति शेषः । मूढग्राहेण मूढेन अविवेकेन ग्राहः दुराग्रहः मूढग्राहः तेन मूढग्राहेण आत्मनः देहद्वयसङ्घातस्य पीडया यत् प्रसिद्धं तपः अनुष्ठानं क्रियते वा अथवा परस्योत्सादनार्थं परस्य शत्रुभूतस्य उत्सादनं नाशः परस्योत्सादनं परस्योत्सादनाय इति परस्योत्सादनार्थं तपःअनुष्ठानं क्रियते तत् तपः तामसं तमसः तमोगुणयुक्तस्य इदं तामसं उदाहृतं उच्चारितं तमसा निर्वतितं उक्तम् ॥१९॥ दानादिषु क्षायोपशमिकाद्यध्यवसायविशेषान्मनस उत्साहो भावधर्मः । भावरहिता धर्मक्रिया वास्तविकं फलं न ददाति । यदुक्तं श्रीअध्यात्मकल्पद्रुमे श्रीमुनिसुन्दरसूरिभिः - यवसायविशेषात्मनात्याही भावधः भारहित
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy