SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२६ तपोधर्मः प्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिशालित्वं, ब्रह्मचर्यं निषिद्धमैथुननिवृत्तिः, अहिंसाऽशास्त्रप्राणिपीडनाभावः । चकारादस्तेयापरिग्रहावपि । शारीरं शरीरप्रधानैः कादिभिः साध्यं न तु केवलेन शरीरेण । 'पञ्चैते तस्य हेतव' इति हि वक्ष्यतीत्थं शारीरं तप उच्यते ॥१४॥ अनुद्वेगकरं वाक्यं, सत्यं प्रियं हितं च यत्। स्वाध्यायाभ्यसनं चैव, वाङ्मयं तप उच्यते ॥१५॥ व्याख्या - 'अनुद्वेगे'ति । अनुद्वेगकरं न कस्यचिदुःखकरं, सत्यं प्रमाणमूलमबाधितार्थ, प्रियं श्रोतुस्तत्काल श्रुतिसुखं, हितं परिणामे सुखकरं, चकारो विशेषणानां समुच्चयार्थः । अनुद्वेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं न त्वेकेनापि विशेषणेन न्यूनं यद्वाक्यं यथा शान्तो भव वत्स स्वाध्यायं योगं चानुतिष्ठ तथा ते श्रेयो भविष्यतीत्यादि तद्वाङ्मयं वाचिकं तपः शारीरवत्, स्वाध्यायाभ्यसनं च यथाविधिवेदाभ्यासश्च वाङ्मयं तप उच्यते । एवकारः प्राविशेषणसमुच्चयावधारणे व्याख्यातः ॥१५॥ मनःप्रसादः सौम्यत्वं, मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६॥ व्याख्या - 'मनःप्रसाद' इति । मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्यं, सौम्यत्वं सौमनस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च, मौनं मुनिभाव एकाग्रतयात्मचिन्तनं निदिध्यासनाख्यं, वाक्यसंयमहेतुर्मन:संयमो मौनमिति भाष्यम्, आत्मविनिग्रह आत्मनो मनसो विशेषेण सर्ववृत्तिनिग्रहो निरोधः, समाधिरसम्प्रज्ञातः, भावस्य हृदयस्य शुद्धि: कामक्रोधलोभादिमलनिवृत्तिः पुनरशुद्ध्युत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः परैः सह व्यवहारकाले मायाराहित्यं सेति भाष्यं इत्येतदेवंप्रकारं तपो मानसमुच्यते ॥१६॥ ___ यद्वा सात्त्विक-राजस-तामसभेदात् त्रिविधं तपः । यदुक्तं श्रीमद्भगवद्गीतायां गणेशशास्त्रिपाठककृतबालबोधिनीनामतद्वृत्तौ च - 'श्रद्धया परया तप्तं, तपस्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः, सात्त्विकं परिचक्षते ॥१७॥ व्याख्या - एवं शारीरादिभेदेन त्रिविधं तपः उक्त्वा इदानीं गुणभेदेन त्रिविधं तपः दर्शयन् सन् प्रथमं सात्त्विकं तपः आह - 'श्रद्धयेति । हे पार्थ ! शिष्टाः इति शेषः । तत्
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy