________________
तपोधर्मः
१२५ तीव्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानं ३ सर्वाभिशङ्कनपरस्परोपघातपरायणशब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं च ४ उत्सन्नवधादिलिङ्गगम्यं नरकगतिगमनकारणमवसेयं २ । तथा धर्मः - क्षमादिदशलक्षणः तस्मादनपेतं धर्म्य, तच्च सर्वज्ञाऽऽज्ञानुचिन्तनं १ रागद्वेषकषायेन्द्रियवशजन्तूनामपायविचिन्तनं २ ज्ञानावरणादिशुभाशुभकर्मविपाकसंस्मरणं ३ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकं ४, जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यं ३ । तथा शोधयत्यष्टप्रकारं कर्ममलं शुचं वा - शोकं क्लमयति-अपनयतीति निरुक्तविधिना शुक्लं, एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्योत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपं ४ अवधासम्मोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं ४ । अत्र च धर्मशुक्ले एव तपसी निर्जरार्थत्वात्, नातरौद्रे बन्धहेतुत्वादिति ११ ।
'उस्सग्गोऽवि यत्ति उत्सर्जनीयस्य परित्याग उत्सर्गः, स द्विविधः-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्यानेषणीयस्य संसक्तस्यान्नपानादेर्वा त्यागः, आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः, ननु उत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र भणनेन ?, सत्यं, सोऽतीचारविशुद्ध्यर्थमुक्तः अयं तु सामान्येन निर्जरार्थमुक्त इत्यपौनरुक्त्यं १२ ।
'अभितरओ तवो होइ' त्ति इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च भावतोऽनासेव्यमानत्वात् मोक्षावाप्तावन्तरङ्गत्वादभ्यन्तरस्य कर्मणस्तापकत्वादभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाच्चाभ्यन्तरं तपो भवतीति ॥२७१॥'
केचित् शारीर-वाङ्मय-मानसभेदात् त्रिविधं तप इच्छन्ति । उक्तञ्च श्रीमद्भगवद्गीतायां मधुसूदनकृतगूढार्थदीपिकानामतद्वृत्तौ च -
'देवद्विजगुरुप्राज्ञ-पूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च, शारीरं तप उच्यते ॥१४॥ व्याख्या - क्रमप्राप्तस्य तपसः सात्त्विकादिभेदं कथयितुं शारीरवाचिकमानसभेदेन तस्य त्रैविध्यमाह त्रिभिः - 'देवद्विजेत्यादिना । देवा ब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः, द्विजा द्विजातयो ब्राह्मणाः, गुरुवः पितृमात्राचार्यादयः, प्राज्ञाः पण्डिता विदितवेदतदुपकरणार्थास्तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्रं, शौचं मृज्जलाभ्यां शरीरशोधनं, आर्जवमकौटिल्यं भावशुद्धिशब्देन मानसे तपसि वक्ष्यति, शारीरं त्वार्जवं विहित