________________
१२४
तपोधर्मः 'वेयावच्च मिति व्यापिपति स्मेति व्यापृतः तस्य भावो वैयावृत्त्यं, धर्मसाधनार्थमन्नादिदानमित्यर्थः, यदाहुः -
"वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं ।
अन्नाइयाण विहिणा संपायणमेस भावत्यो ॥१॥" । (छाया- वैयावृत्त्यं व्यापृतभाव इह धर्मसाधननिमित्तं ।
अन्नादीनां विधिना सम्पादनमेष भावार्थः ॥१॥) ९ । 'तहेव सज्झाओ'त्ति सुष्ठ आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वा अध्यायःअध्ययनं स्वाध्यायः, स च पञ्चधा-वाचनापृच्छनापरावर्तनानुप्रेक्षाधर्मकथाभेदात्, तत्र वाचनाशिष्याध्यापनं, गृहीतवाचनेनापि संशयोत्पत्तौ पुनः पृष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः पृच्छना, पृच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परावर्तना, सूत्रस्य घोषादिविशुद्धं गणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतोऽनुप्रेक्षणं, ग्रन्थार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा कर्तव्येति, धर्मस्य - श्रुतरूपस्य कथा - व्याख्या धर्मकथेति १० ।
'झाण'मिति ध्यायते-चिन्त्यते वस्त्वनेनेति ध्यातिर्वा ध्यान-अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसानं, यदाहुः -
"अंतोमुहत्तमेत्तं चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥१॥" (छाया- अन्तर्मुहूर्त्तमात्रं चित्तावस्थानमेकवस्तुनि ।
छद्मस्थानां ध्यानं योगनिरोधः जिनानां तु ॥१॥) तच्चतुर्धा-आर्तन्द्रधर्म्यशुक्लभेदात्, तत्र ऋतं - दुःखं तस्य निमित्तं तत्र वा भवं ऋते वा - पीडिते प्राणिनि भवमार्तं, तच्चामनोज्ञानां शब्दरूपरसस्पर्शगन्धलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं भाविनां वाऽसम्प्रयोगचिन्तनम् १ एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगासम्प्रयोगप्रार्थनं २ इष्टशब्दादिविषयाणां सातवेदनायाश्चाविप्रयोगसम्प्रयोगप्रार्थनं ३ देवेन्द्रचक्रवर्तित्वादिप्रार्थनं च ४ शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं १ । तथा रोदयत्यपरानिति रुद्रः - प्राणिवधादिपरिणत-आत्मैव तस्येदं कर्म रौद्रं, तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं १ पैशून्यासभ्यासद्भूतघातादिवचनचिन्तनं २