________________
१२३
तपोधर्मः तथा- "मणवयकाइयविणओ आयरियाईण सव्वकालम्मि ।
अकुसलमणाइरोहो कुसलाणमुदीरणं तह य ॥२॥" (छाया- सामायिकादिचरणस्य श्रद्धानं तथैव कायेन ।
संस्पर्शनं प्ररूपणं अथ पुरतः सर्वसत्त्वानाम् ॥१॥ मनोवचःकायिकविनय आचार्यादीनां सर्वकाले ।
अकुशलमनआदिरोधः कुशलानामुदीरणं तथा च ॥२॥) तथा उपचारेण - सुखकारिक्रियाविशेषण निर्वृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, स च सप्तधा -
"अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य ।
कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण सव्वत्थेसु तह य अणुमई भणिया ।
उवयारिओ उ विणओ एसो भणिओ समासेणं ॥२॥" (छाया- अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च ।
कारितनिमित्तकरणं दुःखार्तगवेषणं तथा च ॥१॥ तथा देशकालज्ञानं सर्वार्थेषु तथा च अनुमतिर्भणिता ।
औपचारिकस्तु विनय एष भणितः समासेन ॥२॥) तत्र 'अब्भासऽच्छणं'ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे - प्रत्यासन्ने स्थातव्यं, तथा छन्दः - अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः-कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृति - प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यं, तथा कार्यनिमित्तकारणं, कार्य-श्रुतप्रापणादिकं निमित्तं-हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं, तदनुष्ठानं च कर्तव्यं, यद्वा कारितेन - सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं - विनयस्य विधानं कारितनिमित्तकारणं, गुरुणा सम्यक् सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्तस्य-दुःखपीडितस्य गवेषणं -
औषधादिना प्रतिजागरणं दुःखार्तगवेषणं, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविषयेष्वनुमतिः - आनुकूल्यं, अथवा द्विपञ्चाशद्भेदो विनयः, स च पञ्चषष्टितमद्वारे वक्ष्यते ८ ।