________________
१२२
तपोधर्मः इंतस्सऽणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया ।
गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥३॥" (छाया- शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः ।
दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥१॥ सत्कारोऽभ्युत्थानं सन्मानासनाभिग्रहः तथा च । आसनानुप्रदानं कृतिकर्माञ्जलिग्रहश्च ॥२॥ आयातोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता ।
गच्छतोऽनुव्रजनमेष शुश्रूषणाविनयः ।।३।।) सत्कार:-स्तवनवन्दनादि अभ्युत्थानं-विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानोवस्त्रपात्रादिभिः पूजनं आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणासनानयनपूर्वकमत्रोपविशतेति भणनं आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणं कृतिकर्म-वन्दनकं अञ्जलिग्रह:अञ्जलिकरणं, शेषं प्रकटं, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम् -
"तित्थयर धम्म आयरिअ वायगे थेर कुल गणे संघे ।
संभोइअ किरियाए मइनाणाईण य तहेव ॥१॥" (छाया- तीर्थकरे धर्मे आचार्ये वाचके स्थविरे कुले गणे सङ्के ।
साम्भोगिके क्रियावति मतिज्ञानादीनां च तथैव ॥१॥ साम्भोगिका:-एकसामाचारिकाः क्रिया-आस्तिकता -
"कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य ।
अरहंतमाइयाणं केवलनाणावसाणाणं ॥१॥" (छाया- कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्च ।
अर्हदादीनां केवलज्ञानावसानानाम् ॥१॥) भक्तिः-बाह्या प्रतिपत्तिः बहुमानः - आन्तरः प्रीतिविशेषः वर्णवादो-गुणग्रहणं, चारित्रविनयः पुनः
"सामाइयाइचरणस्स सद्दहाणं तहेव कायेणं । संफासणं परूवणमह पुरओ सव्वसत्ताणं ॥१॥"