SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तपोधर्मः १२१ बाह्यद्रव्याद्यपेक्षत्वात्, प्रायो बहिः शरीरस्य तापकत्वात् लौकिकैरपि तपस्तया ज्ञायमानत्वात् कुतीर्थिकैरपि स्वाभिप्रायेणासेव्यमानत्वाच्चेति ॥२७०॥ 'पायच्छित्त 'मित्यादि, इह चित्तं - जीवो भण्यते, ततः प्रायो - बाहुल्येन चित्तं - जीवं विशोधयति-मूलोत्तरगुणविषयातीचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं, तत् पुनरालोचनादिकं दशधा, यदाहुः "आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥१॥" इति (छाया - आलोचना प्रतिक्रमणं मिश्रं विवेकस्तथोत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाराञ्चिकं चैव ॥१॥) एतत्स्वरूपं चाष्टानवतिद्वारे न्यक्षेण वक्ष्यते । ७ । - 'विणए 'त्ति विनीयते - क्षिप्यते अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहुः - " नाणे दंसणचरणे मणवयकाओवयारिओ विणओ । नाणे पंचपयारो मइनाणाईण सद्दहणं ॥१॥ भत्ती तह बहुमाणो तद्दिट्ठत्थाण सम्मभावणया । विहिगहणभासोऽवि य एसो विणओ जिणाभिहिओ ॥२॥ " (छाया - ज्ञाने दर्शनचरणे मनोवच: कायौपचारिको विनयः । ज्ञाने पञ्चप्रकारो मतिज्ञानादीनां श्रद्धानम् ॥१॥ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यग्भावनता । विधिग्रहणमभ्यासोऽपि चैष विनयो जिनाभिहितः ॥२॥ ) शुश्रूषणादिकश्च दर्शनविनयः, यदाहुः “सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएसुं किज्जइ सुस्सूसणाविणओ ॥१॥ - सक्कारब्भुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ॥२॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy