________________
१२०
तपोधर्मः (छाया- शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु ।
श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यं ॥१॥) एवं चक्षुरादीन्द्रियेष्वपि भावनीयं, यथा -
"रूवेसु य भद्दयपावएसु चक्खुविसयमुवगएसु।
तुट्टेण व रुद्रुण व समणेण सया न होयवं ॥१॥" (छाया- रूपेषु च भद्रकपापकेषु चक्षुर्विषय० ।)।
इत्याद्यभिलापेनेति, कषायसंलीनता च कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदभ्यधायि -
"उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं ।
जं इत्थ कसायाणं कसायसंलीणया एसा ॥१॥" (छाया- उदयस्यैव निरोधः प्राप्तोदयानां वाऽफलीकरणम् ।
यदत्र कषायाणां कषायसंलीनतैषा ॥१॥) योगसंलीनता पुनर्मनोवाक्कायलक्षणयोगानामकुशलानां निरोधः कुशालानामुदीरणं च, यदवोचन् -
"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं ।
कज्जंमि य विहिगमणं जोगे संलीणया भणिया ॥१॥" (छाया- अप्रशस्तानां निरोधः योगानां कुशलानाम् उदीरणं च ।
कार्ये च विधिगमनं योगे संलीनता भणिता ॥१॥ विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्रीपशुपण्डकादिरहितेषु यदवस्थानं, यदाहुमहर्षयः -
"आरामुज्जाणाइसु थीपसुपंडगविवज्जिए ठाणं ।
फलगाईण य गहणं तह भणियं एसणिज्जाणं ॥१॥" (छाया- आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थानम् ।
फलकादीनां च ग्रहणं तथा भणितं एषणीयानाम् ॥१॥ ६। चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्यं तपो भवति, बाह्यत्वं चास्य