SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तपोधर्मः ११९ 'रसच्चाओ 'त्ति रसानां - मतुब्लोपाद्विशिष्टरसवतां विकारहेतूनां दुग्धादीनां त्यागो - वर्जनं रसत्यागः ४। 'कायकिलेसो 'त्ति कायस्य - शरीरस्य क्लेशः - शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्यासनकरणेन अप्रतिकर्मशरीरत्वकेशोल्लुञ्चनादिना च विचित्र:, यदवाचि"वीरासणउक्कुडुगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वेयउत्ति ॥१॥ वीरासणासु गुणा कायनिरोहो दया य जीवेसु । परोगमई य तहा बहुमाणो चेव अन्नेसिं ॥२॥ निस्संगया अ पच्छापुरकम्मविवज्जणं च लोयगुणा । दुक्खसहत्तं नरगाइभावणाए य निव्वेओ ॥३॥" (छाया - वीरासनोत्कटुकासनादिः लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषां ॥२॥ निःसंगता च पश्चात्पुरः कर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नरकादिभावनया च निर्वेदः ||३||) ५ । 'संलीणया य'त्ति संलीनता शयनासनता चेति चतुर्धा, यदुक्तम् "इंदियकसायजोए पडुच्च संलीणया मुणेयव्वा । तह य विवित्ता चरिया पन्नत्ता वीयराएहिं ॥१॥" - गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्त (छाया - इन्द्रियकषाययोगान् प्रतीत्य संलीनता ज्ञातव्या । तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १॥ तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाकरणं श्रवणेन्द्रियसंलीनता, यदाहु: "सद्देसु य भद्दयपावएसु सोयविसयमुवगएसु । तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ १ ॥ "
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy