________________
११८
तपोधर्मः (छाया- लेपकृदलेपकृद्वाऽमुकं वा द्रव्यमद्य ग्रहीष्यामि ।
अमुकेन वा द्रव्येणैष द्रव्याभिग्रहो नाम ॥१॥ अष्टैव गोचरभूमयः देहलीविष्कम्भमात्रग्रहणं च । स्वग्रामे परग्रामे इयन्ति गृहाणि तु क्षेत्रे ॥२॥ ऋजु गत्वाप्रत्यागतिश्च गोमूत्रिका पतङ्गवीथिः । पेटा चार्धपेट अभ्यन्तरशम्बूका बाह्यशम्बूका ॥३॥ कालेऽभिग्रहः पुनरादौ मध्ये तथैवावसाने ।
अप्राप्ते स्मृतिकाले आद्यः द्वितीयो मध्ये तृतीयोऽन्त्ये ॥४॥) प्रतीतभिक्षावेलाया आदौ मध्येऽवसाने च कालविषयोऽभिग्रहः तथा चाह
"अप्राप्ते सति भिक्षाकाले अटत आदिः-प्रथमः, मध्ये-भिक्षाकाल एवाटतो द्वितीयः, अन्ते-भिक्षाकालावसानेऽटतस्तृतीयोऽभिग्रहः"
"दिन्तगपडिच्छगाणं हवेज्ज सुहुमंपि मा हु अचियत्तं । इइ अप्पत्ते अइए पवत्तणं मा उ मज्झमि ॥१॥ उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा हुँति ।
गायंतो व रुयन्तो जं देइ निसन्नमाइ वा ॥२॥" (छाया- ददत्प्रतीच्छकयोः सूक्ष्माऽप्यप्रीतिर्मा भूत् ।
अप्राप्तेऽतीते वा प्रवर्तनं-पुर:पश्चात्कर्मादि मा भूदिति मध्ये ॥१॥ उत्क्षिप्तादिचरकाः भावयुताः खल्वभिग्रहा भवन्ति ।
गायन् वा रुदन् वा यद्ददाति निषण्णादिर्वा ॥२॥) 'उक्खित्तमाइचरग'त्ति उत्क्षिप्तादिचराः, उत्क्षिप्ते भाजनात् पिण्डे चरति - गच्छति यः स उत्क्षिप्तचरः, एवं निक्षिप्ते भाजनादाविति भावनीयं,
"ओसक्कण अहिसक्कण परंमुहालंकिएतरो वावि ।
भावंतरेण य जुओ अह भावाभिग्गहो नाम ॥१॥" (छाया- अवष्वष्कणमभिष्वष्कणं पराङ्मुखोऽलङ्कृत इतरो वापि ।
भावान्तरेण वा युतो अथ भावाभिग्रहो नाम ॥१॥) ३ ।