SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तपोधर्मः ११७ नवभ्यः कवलेभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरिका, अत्रापि नवकवला जघन्या द्वादशकवलोत्कृष्टा शेषा तु मध्यमा, एवं त्रयोदशभ्य आरभ्य यावत् षोडश कवला: तावद्विभागोनोदरिका, जघन्यादिभेदत्रयभावना पूर्ववत्, एवं सप्तदशभ्य आरभ्य यावत् चतुर्विंशतिः कवलास्तावत् प्राप्तोनोदरिका, जघन्यादित्रयभावना अत्रापि पूर्ववत्, एवं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलास्तावत् किञ्चिदूनोदरिका, जघन्यादिभेदत्रयं पूर्ववद्भावनीयं, एवमनेनानुसारेण पानेऽपि भणनीया, तथा स्त्रीणामप्येवं पुरुषानुसारेण द्रष्टव्या, भावत ऊनोदरिका क्रोधादिपरित्यागः, यत उक्तम् - "कोहाईणमणुदिणं चाओ जिणवयणभावणाओ य । भावेणोणोदरिआ पन्नत्ता वीयराएहिं ॥१॥" (छाया- क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च । भावेनोनोदरिका प्रज्ञप्ता वीतरागैः ॥१॥) २ । 'वित्तीसंखेवणं'ति वर्तते अनयेति वृत्तिः - भैक्ष्यं तस्याः सङ्क्षपणं - सङ्कोचः तच्च गोचराभिग्रहरूपं, ते च गोचरविषया अभिग्रहा अनेकरूपाः, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो मया अद्य भिक्षायां गतेन लेपकार्याद्येव कुन्ताग्रादिसंस्थितमण्डकादि वा ग्राह्यमित्यादयः, क्षेत्रत एकद्वित्र्यादिगृहस्वग्रामपरग्रामपेटार्धपेटदिलब्धं दायकेन देहलीजङ्घयोरन्तर्विधाय वा दत्तं ग्रहीष्यामीत्यादयः, कालतः पूर्वाह्लादौ सकलभिक्षाचरनिवर्त्तनावसरे वा पर्यटितव्यमित्यादयः, भावतो हसनगानरोदनादिक्रियाप्रवृत्तो बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः, उक्तं च - "लेवडमलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण व दव्वेणं अह दव्वाभिग्गहो नाम ॥१॥" अमुगेणंति चट्टक्ककरोटिकादिना। "अट्ठ य गोयरभूमि एलुयविक्खंभमित्तगहणं च । सग्गामपरग्गामो एवइअ घरा उ खेत्तंमि ॥२॥ उज्जुगगंतुं पच्चागई य गोमुत्तिआ पयंगविही । पेडा य अद्धपेडा अभितरबाहिसंबुक्का ॥३॥ काले अभिग्गहो पुण आई मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आई बिति मज्झि तइयंते ॥४॥"
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy