________________
११६
तपोधर्मः प्रवृत्तिस्तूनतामात्रे, सा द्विधा - द्रव्यतो भावतश्च, द्रव्यत उपकरणभक्तपानविषया, तत्र उपकरणविषयोनोदरिका जिनकल्पिकादीनां तदभ्यासपरायणानां वाऽवबोद्धव्या, न पुनरन्येषां, तेषामुपध्यभावे समग्रसंयमपालनाऽभावात्, अथवाऽन्येषामप्यतिरिक्तोपकरणाग्रहणतो भवत्येवोनोदरता, यत उक्तम् -
"जं वट्टइ उवगारे उवगरणं तं च होइ उवगरणं ।
अइरित्तं अहिगरणं अजओ अजयं परिहरंतो ॥१॥" (छाया- यद्वर्त्तते उपकारे उपकरणं तदेव भवत्युपकरणं ।
अतिरिक्तमधिकरणं अयतोऽयतं परिहरन् ॥१॥) इति, 'परिहरंतो'त्ति आसेवमानः 'परिहारो परिभोगो' इति वचनात्, ततोऽयतश्च यत्परिभुञ्जानो भवतीत्यर्थः, भक्तपानोनोदरिका पुनरात्मीयाहारमानपरित्यागतो विज्ञेया, आहारमानं च -
"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ।
पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ कवलस्स य परिमाणं कुक्कुडिअंडगपमाणमित्तं तु ।
जं वा अविगियवयणो वयणम्मि छुभिज्ज वीसंतो ॥२॥" इत्यादि (छाया- द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः ।
पुरुषस्य महिलिकाया अष्टाविंशतिः भवेयुः कवला ॥१॥ कवलस्य च परिमाणं कुर्कुट्यण्डकप्रमाणमात्रं तु ।
यद्वा अविकृतवदनो वदने क्षिपेद्विश्वस्तः ॥२॥) सा च अल्पाहारादिभेदतः पञ्चविधा भवति, यदाहु:
"अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ ।
अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥" (छाया- अल्पाहारा १ अपार्धा २ द्विभागा ३ प्राप्ता ४ तथैव किञ्चिदूना ५ ।
अष्टौ द्वादश षोडश चतुर्विंशतिः तथैकत्रिंशच्च ॥१॥) अयमत्र भावार्थः - अल्पाहारोनोदरिका नाम एककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या अष्टकवलमाना पुनरुत्कृष्टा व्यादिकवलमानभेदा मध्यमा, एवं