SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तपोधर्मः ११५ "दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१७७॥" (प्रशमरतिः) इति । कृतानुमतिकारितैरिति मनोवाक्कायत इति च मध्ये कृतत्वात्पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ॥१/२३॥' कर्माणि तापयतीति तपः । यदुक्तं श्रीआवश्यनियुक्तिवृत्तौ - 'तापयति अष्टप्रकारं कर्म इति तपः।' तपो द्विविधम् । तद्यथा - १ बाह्यं २ अभ्यन्तरञ्च । एकैकं षड्विधम् । उक्तञ्च श्रमणपाक्षिकसूत्रे - ‘छव्विहमभितरियं, बझं पि य छव्विहं तवोक्कमं ।' (छाया- षड्विधमाभ्यन्तरं, बाह्यमपि च षड्विधं तपःकर्म ।) बाह्याभ्यन्तरभेदभिन्नस्य तपस स्वरूपमेवं प्रज्ञापितं श्रीप्रवचनसारोद्धारे तद्वृत्तौ च 'अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥२७०॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोऽवि य अभितरओ तवो होइ ॥२७१॥ (छाया- अनशनमूनोदरिका वृत्तिसक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥२७०॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं उत्सर्गोऽपि च आभ्यन्तरं तपो भवति ॥२७१॥) व्याख्या - 'अणसणे'त्यादि गाथाद्वयं, तत्र अश्यत इति अशनं न अशनं अनशनमाहारत्याग इत्यर्थः तत्पुनद्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं-परिमितकालं, तत्पुनः श्रीमहावीरतीर्थे नमस्कारसहितादि षण्मासान्तं श्रीनाभेयतीर्थे संवत्सरपर्यन्तं, मध्यमतीर्थकरतीर्थे त्वष्टमासान् यावत्, यावत्कथिकं पुनराजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा, यथा पादपोपगमनं इङ्गितमरणं भक्तपरिज्ञा चेति, एतेषां त्रयाणामपि स्वरूपं सप्तपञ्चाशदधिकशततमद्वारादवसेयमिति १॥ 'ऊणोअरियत्ति ऊनमुदरं तस्य करणं भावे वुजि ऊणोदरिका, व्युत्पत्तिरेवेयं, अस्य
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy