________________
११४
शीलधर्मः अन्यत्राप्युक्तम् -
'जे नो करंति मणसा, णिज्जियआहारसन्नसोइंदी।
पुढवीकायारम्भे, खंतिजुआ ते मुणी वंदे ॥१॥ (छाया- ये न कुर्वन्ति मनसा, निर्जिताहारसज्ज्ञश्रोत्रेन्द्रियाः ।
पृथ्वीकायारम्भं, क्षान्तियुताः तान् मुनीन् वन्दे ॥१॥) भावार्थ:- यः क्षमाशीलः, पृथ्वीकायाऽऽरम्भं श्रोत्रेन्द्रियनिग्रहवान्, आहारसञ्ज्ञाजयवान्, मनसा न करोमि ।
गुणकारा एवम् :- १०x१०=१००, १००४५-५००, ५००x४२०००, २०००x ३-६०००, ६०००४३-१८००० ।
अस्यां रीत्यां १८ सहस्राणि गाथा एवम् :
जे कारंति न मणसा, जेऽणुमण्णंति ण मणसा तथा वयसा, तणुणा तथा णिज्जियभयसन्नु, इत्यादि तथा चक्खिन्दी...इत्यादि तथा आउकायारंभे... वणस्सइआरंभे, बेइन्दियआरंभे.... पंचिंदियआरंभे, अजीवकायारंभे तथा समद्दवा, सअज्जवा, मुत्तिजुआ, तवजुआ, ससंजमा, सच्चजुआ, सोअजुआ, अकिंचणा, बंभजुअ त्ति'
(छाया - ये कारयन्ति न मनसा, येऽनुमन्यन्ते न मनसा तथा वचसा, तन्वा, तथा निर्जितभयसञः इत्यादि तथा चक्षुरिन्द्रिय...इत्यादि तथा अप्कायारम्भं...वनस्पतिआरम्भं, द्वीन्द्रियारम्भं...पञ्चेन्द्रियारम्भं, अजीवकायारम्भं तथा समावाः, सार्जवाः, मुक्तियुताः, तपयुताः, ससंयमाः, सत्ययुताः, शौचयुताः, अकिञ्चनाः, ब्रह्मयुता इति । ) मैथुनविरमणरूपं ब्रह्मचर्यमष्टादशविधम् । तथा चोक्तं श्रीयोगशास्त्रे तद्वृत्तौ च_ 'दिव्यौदारिककामानां, कृतानुमतिकारितैः ।
मनोवाक्कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥१/२३॥ व्याख्या - दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः । औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाश्च तेषां त्यागोऽब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चाष्टादशधा मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः । एवमौदारिकेऽपीत्यष्टादश । यदाह -