SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ शीलधर्मः ११३ अथ शेषाणि तान्यतिदेशतो दर्शयन्नाह - इय मद्दवादिजोगा, पुढविक्काए भवंति दस भेया । आउक्कायादीसुवि, इय एते पिंडियं तु सयं ॥७॥ (छाया- इति मार्दवादियोगात्, पृथिवीकाये भवन्ति दश भेदाः । अप्कायादिष्वपि, इति एते पिण्डिताः तु शतम् ॥७॥) सोइंदिएण एयं, सेसेहिवि जं इमं तओ पंच । आहारसण्णजोगा, इय सेसाहिं सहस्सदुगं ॥८॥ (छाया- श्रोत्रेन्द्रियेणैतच्छेषैरपि यदिदं ततः पञ्च ।। आहारसञ्ज्ञायोगादिति शेषाभिः सहस्रद्वयम् ॥८॥) एयं मणेण वइमादिएस एयंति छस्सहस्साइं। ण करइ सेसेहिपि य एए सव्वेऽवि अट्ठारा ॥९॥ (छाया- एतन्मनसा वागाद्योः एतदिति षट्सहस्राणि । न करोति शेषयोरपि च एते सर्वेऽपि अष्टादश ॥९॥) व्याख्या - ‘इये 'त्यादि, इति-अनेनैव पूर्वोक्ताभिलापेन मार्दवादियोगात्-मार्दवार्जवादिपदसंयोगेन पृथिवीकाये-पृथ्वीकायमाश्रित्य पृथ्वीकायसमारम्भमित्यभिलापेनेत्यर्थः भवन्ति-स्युः दश भेदा-दश शीलविकल्पाः, अप्कायादिष्वपि-नवसु स्थानेषु, अपिशब्दो दशेत्यस्येह सम्बन्धनार्थः, इति-अनेन क्रमेण एते-सर्वेऽपि भेदाः 'पिंडियं तु 'त्ति प्राकृतत्वात् पिण्डिताः पुनः सन्तः अथवा पिण्डितं-पिण्डमाश्रित्य शतं-शतसङ्ख्याः स्युरिति ॥७॥ __'सोइ'मित्यादि, श्रोत्रेन्द्रियेणैतच्छतं लब्धं, शेषैरपि-चक्षुरिन्द्रियादिभिः यद्-यस्मात् इदं-शतं प्रत्येकं लभ्यते ततो मीलितानि पञ्च शतानि स्युः, एतानि चाहारसज्ञायोगालब्धानीति, एवं शेषाभिस्तिसृभिः पञ्च पञ्च शतानि स्युः, एवं च सर्वमीलने सहस्रद्वयं स्यादिति ॥८॥ ___ 'एय'मित्यादि, एतत्-सहस्रद्वितयं मनसा लब्धं, 'वइमाइएसुत्ति वागाद्यो:वचनकाययोः प्रत्येकमेतत्-सहस्रद्वयं इति-एवं षट्सहस्त्राणि न करोतीत्यत्र करणपदे स्युः, शेषयोरपि च-कारणानुमत्योरित्यर्थः षट् षट् सहस्राणि स्युः, एतेऽनन्तरोक्ताः सर्वेऽपि शीलभेदाः पिण्डिताः सन्तः 'अट्ठार'त्ति प्राकृतत्वाद् अष्टादश सहस्राणि भवन्तीति गाथात्रयार्थः ॥९॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy