SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११२ शीलधर्मः भोमादी णव जीवा, अजीवकाओ उ समणधम्मो उ। खंतादि दसपगारो, एव ठिए भावणा एसा ॥५॥ (छाया- भूम्यादय नव जीवा, अजीवकायस्तु श्रमणधर्मस्तु । क्षान्त्यादिः दशप्रकार, एवं स्थिते भावना एषा ॥५॥) व्याख्या - 'करणे'त्यादि, 'भोमादी'त्यादि, 'करणाइ'त्ति सूत्रत्वात् करणादयःकरणकारणानुमतयः त्रयो योगा भवन्ति, तथा मनआदीनि तु-मनोवचनकायरूपाणि पुनः भवन्ति-स्युः करणानि त्रीण्येव, तथा आहारादयः-आहारभयमैथुनपरिग्रहविषया वेदनीयभयमोहवेदमोहलोभकषायोदयसम्पाद्याध्यवसायविशेषरूपाः 'चउत्ति चतस्त्रः सञ्जा भवन्ति, तथा श्रोत्रादीनि-श्रोत्रचक्षुर्घाणरसनस्पर्शनानि इन्द्रियाणि पञ्च भवन्ति इति ॥४॥ तथा भूम्यादयः-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रिया नव जीवा-जीवकायाः अजीवकायस्तु-अजीवराशिः पुनर्दशमो यः परिहार्यतयोक्तः, स च महाधनानि वस्त्रपात्राणि विकटहिरण्यादीनि च, तथा पुस्तकानि तूल्याद्यप्रत्युपेक्षितानि प्रावारादिदुष्प्रत्युपेक्षितानि कोद्रवादितृणानि अजादिचर्माणि चागमप्रसिद्धानीति, तथा श्रमणधर्मस्तु-यतिधर्मः पुनः क्षान्त्यादि:-क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपो दशप्रकारो-दशविध इति, ‘एव 'त्ति एवं-उक्तन्यायेन स्थिते-औत्तरार्येण पट्टकादौ व्यवस्थिते त्रित्रिचतुष्पञ्चदशदशसङ्ख्ये मूलपदकलापे भावना-भङ्गकप्रकाशना एषा-अनन्तरं वक्ष्यमाणलक्षणा । इति गाथाद्वयार्थः ॥५॥ तामेवाह - ण करति मणेणमाहारसण्णविप्पजढगो उ णियमेण । सोइंदियसंवुडो पुढविकायआरंभ खंतिजुओ ॥६॥ (छाया- न करोति मनसाऽऽहारसज्ञाविप्रहीणस्तु नियमेन । श्रोत्रेन्द्रियसंवृतः पृथ्वीकायाऽऽरम्भं क्षान्तियुतः ॥६॥) व्याख्या - ‘णे'त्यादि, न करोतीति करणलक्षणः प्रथमयोग उपात्तः, मनसेति प्रथमकरणं, 'आहारसन्नाविप्पजढगो उ'त्ति आहारसज्ञाविप्रहीणः, अनेन च प्रथमसञ्ज्ञा, तथा नियमेन-अवश्यंतया श्रोत्रेन्द्रियसंवृतो-निरुद्धरागादिमच्छ्रोत्रेन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रियं, एवंविधः सन् किं न करोतीति ? आह-पृथ्वीकायारम्भं-पृथ्वीजीवहिंसां, अनेन च प्रथमजीवस्थानं, क्षान्तियुतः-क्षान्तिसम्पन्नः, अनेन प्रथमश्रमणधर्मभेद इति, तदेवमेकं शीलाङ्गमाविर्भावितमिति गाथार्थः ॥६॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy