SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शीलधर्मः तस्मात् शक्त्यनुरूपमनुकम्पासङ्गतेन भव्येन । अनुष्ठातव्यमेतत् इत एव शेषगुणसिद्धिः ॥ १४०॥ शीलं चारित्ररूपम् । तत् त्रिविधम् । तद्यथा १ सदाचारशीलं २ अष्टादशसहस्रशीलाङ्गरूपं ३ ब्रह्मचर्यरूपञ्च । उक्तञ्च - 'सुद्धं सामायारमनिंदणिज्जं, सहस्सअट्ठारसभेअभिन्नं । बंभाभिहाणं च महव्वयं ति, सीलं तिहा केवलिणो वयंति ॥ ' (छाया - शुद्धं समाचारमनिन्दनीयं, सहस्राष्टादशभेदभिन्नम् । ब्रह्माभिधानं च महाव्रतमिति, शीलं त्रिधा केवलिनो वदन्ति ॥ ) तत्र निन्दनीयाचारत्यागपूर्वकशोभनाचारसमाचरणरूपं सदाचारशीलम् । अष्टादशसहस्रशीलाङ्गरूपशीलस्य स्वरूपमेवं निरूपितं श्रीहरिभद्रसूरिसूत्रितचतुर्द्दशपञ्चाशके श्रीअभयदेवसूरिकृततट्टीकायाञ्च 'कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादशसहस्राणि भवन्तीति ? आह जोए करणे सण्णाइंदियभूमादिसमणधम्मे य । सीलिंगसहस्साणं, अट्ठारसगस्स णिप्फत्ती ॥३॥ (छाया- योगे करणे सज्ञेन्द्रियभूम्यादिश्रमणधर्मे च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ||३|| ) १११ करणाइ तिणि जोगा, मणमादीणि उ हवंति करणाई । आहारादी सण्णा, चउ सोयाइंदिया पंच ॥४॥ — व्याख्या - ‘जोए 'इत्यादि, योगे - व्यापारे विषयभूते करणे - योगस्यैव साधकतमे, सञ्ज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति तत्र सञ्ज्ञासु - चेतनाविशेषभूतासु इन्द्रियेषु - अक्षेषु, भूम्यादिषु - पृथिव्यादि - जीवकायेष्वजीवकाये च, श्रमणधर्मे च क्षान्त्यादौ शीलाङ्गसहस्त्राणां प्रस्तुतानां अष्टादश परिमाणमस्य वृन्दस्येत्यष्टादशकं तस्य निष्पत्ति:सिद्धिर्भवति । इति गाथार्थः ||३|| योगादीनेव व्याख्यातुमाह (छाया करणादयः त्रयो योगा, मनआदीनि तु भवन्ति करणानि । आहारादयः सञ्ज्ञाः, चतस्रः श्रोत्रादीन्द्रियाणि पञ्च ॥ ४ ॥ )
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy