________________
११०
दानधर्मः
जिनवचनज्ञानयोगेन तत्कुलस्थितिसमाश्रितेन च । विज्ञेयमुत्तमत्वं नान्यथा अत्राधिकारे ॥१२८॥ दत्त्वैतद् यः पुनः आरम्भादिषु प्रवर्तते मूढः । भावदरिद्रो नियमात् दूरे स दानधर्माणाम् ॥१२९॥ इहपरलोकेषु भयं येन न सञ्जायते कदाचिदपि । जीवानां तत्कारी य: स दाता त्वेतस्य ॥१३०॥ इति देशतोऽपि दाताऽस्यैतादृशस्तत्र विषये । इतरथा दत्तोद्दालनप्रायं एतस्य दानमिति ॥१३१॥) ज्ञानदययोः क्षान्तिविरतिक्रियया तत् तको ददाति । अन्यो दरिद्रप्रतिषेधवचनतुल्यो भवेत् दाता ॥१३२॥ एवमिहैतत् प्रवरं सर्वेषामेव भवति दानानाम् । इतस्तु नियोगेन एतस्याऽपि ईश्वरो दाता ॥१३३॥ इति धर्मोपग्रहकरं दानं अशनादिगोचरं तच्च । पथ्यमिवाऽन्नकाले च रोगिण उत्तमं ज्ञेयम् ॥१३४।। श्रद्धासत्कारयुतं सक्रमेण तथोचिते काले । अन्यानुपघातेन वचनात् एवं सुपरिशुद्धम् ॥१३५॥ गुरुणाऽनुज्ञातभरो न्यायोपार्जितधनश्चैतस्य । दाता अदुःस्थपरिजनवर्गः सम्यग् दयालुश्च ॥१३६॥ अनुकम्पादानमपि च अनुकम्पागोचरेषु सत्त्वेषु । जायते धर्मोपग्रहहेतुः करुणाप्रधानस्य ॥१३७॥) तस्मादेतत् प्रशस्तं तीर्थकरेणापि भगवता गृहिणा । स्वयमाचीर्णं द्विजदेवदूष्यदानेन गृहिणोऽपि ॥१३८॥ धर्मस्याऽऽदिपदमिदं यस्मात् शीलमस्य पर्यन्ते । तद्विरतस्याऽपि यतो नियमात् स्वनिवेदना गुरोः ॥१३९॥