SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चतुर्विधा था (छाया- धर्मः अर्थः कामः उपदिश्यते यत्र सूत्रकाव्येषु । लोके वेदे समये सा तु कथा मिश्रिता नाम ॥ २०६ ॥ ) व्याख्या - धर्मः- प्रवृत्त्यादिरूपः अर्थो - विद्यादिः कामः - इच्छादिः उपदिश्यते कथ्यते यत्र सूत्रकाव्येषु सूत्रेषु काव्येषु च तल्लक्षणवत्सु, क्वेत्यत आह लोके रामायणादिषु वेदे-यज्ञक्रियादिषु समये - तरङ्गवत्यादिषु सा पुनः कथा मिश्रा मिश्रा नाम, सङ्कीर्णपुरुषार्थाभिधानात् इति गाथार्थः ॥२०६॥ उक्ता मिश्रकथा, तदभिधानाच्चतुर्विधा कथेति ।' धर्मः दुर्गतिप्रपतत्प्राणिगणधारणसमर्थः । उक्तञ्च श्रीआवश्यकसूत्रनिर्युक्तिवृत्तौ श्रीमलयगिरिसूरिभिः 'दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते पुनः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्मः इति स्मृतः ॥ ' - १०७ - स धर्मश्चतुर्विधः । तद्यथा १ दानधर्मः, २ शीलधर्मः, ३ तपोधर्मो ४ भावधर्मश्च । यदुक्तं श्रीशान्तसुधारसे - 'दानं च शीलं च तपश्च भावो, धर्मश्चतुर्धा जिनबान्धवेन । निरूपितो यो जगतां हिताय, स मानसे मे रमतामजस्त्रम् ॥१० / १ ॥' तत्र परानुग्रहार्थं स्वकीयधनादेर्वितरणं दानम् । उक्तञ्च श्रीतत्त्वार्थाधिगमसूत्रे 'अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥७/३३॥' 'दाणं च होइ तिविहं नाणाभयधम्मुवग्गहकरं च । इत्थ पढमं पसत्थं विहिणा जुग्गाण धम्मम्मि ॥ १२१ ॥ सेवियगुरुकुलवासो विसुद्धवयणोऽणुमन्निओ गुरुणा । सव्वत्थ णिच्छियमई दाया नाणस्स विन्नेओ ॥ १२२ ॥ सुस्सूसासंजुत्तो विन्नेओ गाहगो वि एयस्स । न सिराऽभावे खणणाउ चेव कूवे जलं होइ ॥ १२३॥ - दानं त्रिविधम् । तद्यथा १ ज्ञानदानं, २ अभयदानं ३ धर्मोपग्रहकरदानञ्च । एतेषां स्वरूपमित्थं प्रतिपादितं श्रीविंशतिविंशिकान्तर्गतदानविंशिकायां श्रीहरि भद्रसूरिभिः
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy