________________
१०६
चतुर्विधा कथा निर्वेदनी गता, इदानीं तृतीया, परलोके दुश्चीर्णानि कर्माणि इहलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा बाल्यात्प्रभृत्येवान्तकुलेषूत्पन्नाः क्षयकुष्ठादिभी रोगैर्दारिद्रयेण चाभिभूता दृश्यन्ते, एषा तृतीया निवेदनी, इदानी चतुर्थी निर्वेदनी - परलोके दुश्चीर्णानि कर्माणि परलोक एव दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा पूर्वं दुश्चीर्णैः कर्मभिर्जीवाः संदंशतुण्डेषु पक्षिषु उत्पद्यन्ते, ततस्ते नरकप्रायोग्याणि कर्माणि असम्पूर्णानि तानि तस्यां जातौ पूरयन्ति, पूरयित्वा नरकभवे वेदयन्ति, एषा चतुर्थी निर्वेदनी गता, एवं इहलोक: परलोको वा प्रज्ञापकं प्रतीत्य भवति, तत्र प्रज्ञापकस्य मनुष्यभव इहलोकः अवशेषास्तिस्रोऽपि गतयः परलोक इति ।)
इदानीमस्या एव रसमाह-स्तोकमपि प्रमादकृतम् - अल्पमपि प्रमादजनितं कर्मवेदनीयादि 'साहिज्जई 'त्ति कथ्यते यत्र नियमात्-नियमेन, किंविशिष्टमित्याह - प्रभूताशुभपरिणामं बहुतीव्रफलमित्यर्थः, यथा यशोधरादीनामिति कथाया निर्वेदिन्या रसः-एष निष्यन्द इति गाथार्थः ॥२०२॥
सक्षेपतः संवेगनिर्वेदनिबन्धनमाह - सिद्धिश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति गाथार्थः ॥२०३॥
आसां कथानां या यस्य कथनीयेत्येतदाह - विनयेन चरति वैनयिकः - शिष्यस्तस्मै प्रथमतया-आदिकथनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः स्वसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपणी - उक्तलक्षणामेव पश्चादिति गाथार्थः ॥२०४॥
किमित्येतदेवमित्याह - आक्षेपण्या कथया आक्षिप्ताः-आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्यं-सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वं, जडमतेः परसमयदोषानवबोधान्निन्दाकारिण एते न द्रष्टव्या इत्यभिनिवेशेनेति गाथार्थः ॥२०५॥ उक्ता धर्मकथा, साम्प्रतं मिश्रामाह -
धम्मो अत्थो कामो उवइस्सइ जत्थ सुत्तकव्वेसुं। लोगे वेए समये सा उ कहा मीसिया णाम ॥२०६॥