SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुर्विधा कथा "सम्मद्दिट्ठी जीवो विमाणवज्जं ण बंधए आउं । जइवि ण सम्मत्तजढो अहव ण बद्धाउओ पुवि ॥१॥" (छाया - सम्यग्दृष्टिर्जीवो विमानवर्जं न बध्नात्यायुः । यदि नैव त्यक्तसम्यक्त्वोऽथवा न पूर्वं बद्धायुष्कः ॥१॥ ) इत्यादि, उपदिश्यते - कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति गाथार्थः ॥२००॥ १०५ उक्ता संवेजनी, निर्वेदनीमाह पापानां कर्मणां चौर्यादिकृतानामशुभविपाकःदारुणपरिणामः कथ्यते यत्र - यस्यां कथायामिह च परत्र च लोके - इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाह, कथा तु निर्वेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निर्वेदनी एष गाथाक्षरार्थः । 1 भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् इयाणि निव्वेयणी, सा चउव्विहा, तंजहा - इहलोए दुच्चिण्णा कम्मा इहलोए चेव दुहविवागसंजुत्ता भवन्ति त्ति, जहा चोराणं पारदारियाणं एवमाइ एसा पढमा निव्वेयणी, इयाणि बिइया, इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, कहं ?, जहा नेरइयाणं अन्नम्म भवे कयं कम्मं निरयभवे फलं देइ, एसा बिइया निव्वेयणी गया, इयाणीं तइया, परलोए दुच्चिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं ?, जहा बालप्पभितिमेव अंतकुलेसु उप्पन्ना खयकोढादीहिं रोगेहिं दारिद्देण य अभिभूया दीसन्ति, एसा तइया णिव्वेयणी, इयाणि चउत्थी णिव्वेयणी, परलोए दुच्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति कहं ?, जहा पुव्वि दुच्चिण्णेहिं कम्मेहिं जीवा संडासतुंडेहिं पक्खीहिं उववज्जंति, तओ ते णरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए जाती पूरिति, पूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी गया, एवं इहलोगो परलोगो वा पण्णवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इहलोगो अवसेसाओ तिण्णिवि गइओ परलोगोत्ति गाथाभावार्थ: ॥२०१॥ (छाया - इदानीं निर्वेदनी, सा चतुर्विधा, तद्यथा इहलोके दुश्चीर्णानि कर्माणि इहलोक एव दुःखविपाकसंयुक्तानि भवन्तीति, यथा चौराणां पारदारिकाणां एवमाद्येषा प्रथमा निर्वेदनी, इदानीं द्वितीया - इहलोके दुश्चीर्णानि कर्माणि परलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा नैरयिकैरन्यस्मिन् भवे कृतं कर्म निरयभवे फलं ददाति, एषा द्वितीया -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy