SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ चतुर्विधा कथा इहलोयसंवेयणी गया, इयाणि परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं दुक्खेहिं अभिभूया किमंग पुण तिरियनारया ?, एयारिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोयसंवेयणी गयत्ति गाथाभावार्थः ॥१९९॥ (छाया - संवेजनी कथा चतुर्विधा, तद्यथा - आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवेजनी, तत्रात्मशरीरसंवेजनी यथा यदेतदस्मदीयं शरीरकमेवं शुक्रशोणितमांसवसामेदमज्जास्थिस्नायुचर्मकेशरोमनखदन्तान्त्रादिसङ्घातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाऽऽत्मशरीरसंवेजनी, एवं परशरीरसंवेजन्यपि परशरीरमीदृशमेवाशुचि, अथवा परस्य शरीरं वर्णयन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता, इदानीमिहलोकसंवेजनी - यथा सर्वमेतत् मानुषमसारमध्रुवं कदलीस्तम्भसमानमीदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा इहलोकसंवेजनी गता, इदानीं परलोकसंवेजनी, यथा देवा अपि ईर्ष्याविषादक्रोधलोभादिभि१ःखैरभिभूता किमङ्ग पुनः तिर्यङ्नारकाः ?, ईदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसंवेजनी गतेति ।) साम्प्रतं शुभकर्मोदयाशुभकर्मक्षयफलकथनतः संवेजनीरसमाह - वीर्यवैक्रियाद्धः तपःसामोद्भवा आकाशगमनजङ्घाचारणादिवीर्यवैक्रियनिर्माणलक्षणा ज्ञानचरणदर्शनानां तद्धिः तत्र ज्ञानद्धिः 'पभू णं भंते ! चोहसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं विउव्वित्तए ?, हंता पहू विउव्वित्तए।' (छाया - प्रभुर्भदन्त ! चतुर्दशपूर्वी घटात् घटसहस्रं पटत् पटसहस्रं विकुर्वितुं ?, हन्त प्रभुर्विकुर्वितुम् ।) तहा - "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं। ___ तं णाणी तिर्हि गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" (छाया- यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥) इत्यादि, तथा चरणद्धिः नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इत्यादि, दर्शनद्धिः प्रशमादिरूपा, तथा -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy