SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०३ चतुर्विधा कथा कथयति पश्चादितरान् इत्येवं विक्षिपति श्रोतारमिति ।) ___साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह - या स्वसमयवर्जा खलुशब्दस्य विशेषणार्थत्वादत्यन्तं प्रसिद्धनीत्या स्वसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसमयस्य तद्वर्जा कथैव नास्ति, भवति कथा लोकवेदसंयुक्ता, लोकग्रहणाद्रामायणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च साङ्ख्यशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शनद्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि - सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमिति भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्तिः, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरिण एत इति मिथ्यालोचनेनेति गाथार्थः ॥१९७।। अस्य अकथने प्राप्ते विधिमाह - या स्वसमयेन-स्वसिद्धान्तेन करणभूतेन पूर्वमाख्याता - आदौ कथिता तां क्षिपेत् परसमये क्वचिद्दोषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवं, "हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात्, किंत्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोहिंसाया अभावादिति, अथवा परशासनव्याक्षेपात् - 'सुपां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपे-सन्मार्गाभिमुख्यतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः ॥१९८॥ उक्ता विक्षेपणी, अधुना संवेजनीमाह - आत्मपरशरीरविषया इहलोके चैव तथा परलोके - इहलोकविषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यते - संवेगं ग्राह्यतेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् - संवेयणी कहा चउव्विहा, तंजहा - आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरयं एवं सुक्कसोणियमंसवसामेदमज्जट्ठिण्हारुचम्मकेसरोमणहदंतअंतादिसंघायणिप्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीरसंवेयणी गया, इयाणि इहलोयसंवेयणी - जहा सव्वमेयं माणुसत्तणं असारमधुवं कदलीथंभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy