SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ चतुर्विधा कथा ___ गताऽऽक्षेपणी, विक्षेपणीमाह - कथयित्वा स्वसमयं - स्वसिद्धान्तं ततः कथयति परसमयं-परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद् - व्यत्ययेन कथयति - परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् - विक्खेवणी सा चउव्विहा पन्नत्ता, तंजहा - ससमयं कहेत्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं कहेइ २ मिच्छावादं कहेत्ता सम्मावादं कहेइ ३ सम्मावादं कहेत्ता मिच्छावायं कहेइ ४ तत्थ पुव्वि ससमयं कहेत्ता परसमयं कहेइ - ससमयगुणे दीवेइ परसमयदोसे उवदंसेइ, एसा पढमा विक्खेवणी गया । इयाणि बिइया भन्नइ - पुव्वि परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ, गुणे य से उवदंसेइ, एसा बिइया विक्खेवणी गया। इयाणि तइया - परसमयं कहेत्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव वियप्पिया ते पुव्वि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिया ते कहयइ, अहवा मिच्छावादो णत्थित्तं भन्नइ सम्मावादो अत्थित्तं भण्णति, तत्थ पुदिव णाहियवाईणं दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ, एसा तइया विक्खेवणी गया। इयाणि चउत्थी विक्खेवणी, सा वि एवं चेव, णवरं पुव्वं सोभणे कहेइ पच्छा इयरेत्ति, एवं विक्खिवति सोयारं ति ॥१९६॥ (छाया - विक्षेपणी सा चतुर्विधा प्रज्ञप्ता, तद्यथा - स्वसमयं कथयित्वा परसमयं कथयति, परसमयं कथयित्वा स्वसमयं कथयति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति, सम्यग्वादं कथयित्वा मिथ्यावादं कथयति । तत्र पूर्वं स्वसमयं कथयित्वा परसमयं कथयति - स्वसमयगुणान् दीपयति परसमयदोषान् उपदर्शयति, एषा प्रथमा विक्षेपणी गता । इदानीं द्वितीया भण्यते - पूर्वं परसमयं कथयित्वा तस्यैव दोषान् उपदर्शयति पुनः स्वसमयं कथयति गुणांश्च तस्योपदर्शयति, एषा द्वितीया विक्षेपणी गता । इदानीं तृतीया - परसमयं कथयित्वा तेष्वेव परसमयेषु ये भावा जिनप्रणीतैर्भावैविरुद्धा असन्त एव विकल्पितास्तान् पूर्वं कथयित्वा दोषांस्तेषामुक्त्वा पुनर्ये जिनप्रणीतभावसदृशा घुणाक्षरमिव कथमपि शोभना भणितास्तान् कथयति, अथवा मिथ्यावादो नास्तिक्यं भण्यते सम्यग्वाद आस्तिक्यं भण्यते, तत्र पूर्वं नास्तिकवादिनां दृष्टीः कथयित्वा पश्चादास्तिकपक्षवादिनां दृष्टीः कथयति, एषा तृतीया विक्षेपणी गता । इदानी चतुर्थी विक्षेपणी - साऽप्येवमेव, नवरं पूर्वं शोभनान्
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy