________________
१०१
चतुर्विधा कथा
वीर्यवैक्रियद्धिः ज्ञानचरणदर्शनानां तथा ऋद्धिः । उपदिश्यते खलु यत्र कथायाः संवेजन्या रसः ॥२००॥ पापानां कर्मणां अशुभविपाकः कथ्यते यत्र । इह च परत्र च लोके कथा तु निर्वेदनी नाम ॥२०१॥ स्तोकमपि प्रमादकृतं कर्म कथ्यते यत्र नियमात् । प्रचुराशुभपरिणामं कथाया निवेदन्या रसः ॥२०२॥ सिद्धिश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः । नरकः तिर्यग्योनिः कुमानुषत्वं च निर्वेदः ॥२०३।। वैनयिकस्य प्रथमका कथा तु आक्षेपणी कथयितव्या । ततः स्वसमयगृहीतार्थे कथयेत् विक्षेपणी पश्चात् ॥२०४॥ आक्षेपणीआक्षिप्ता ये जीवा ते लभन्ते सम्यक्त्वम् ।
विक्षेपण्या भाज्यं गाढतरं च मिथ्यात्वम् ॥२०५॥) व्याख्या - धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्तातीर्थकर-गणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह - आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र'मितिन्यायात् संवेजनी निर्वेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥१९३॥
भावार्थं त्वाह - आचारो-लोचास्नानादिः व्यवहारः - कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव-संशयापन्नस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च - श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं, अन्ये त्वभिदधति - आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा - अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः ॥१९४॥
इदानीमस्या रसमाह-विद्या-ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं-चारित्रं समग्रविरतिरूपं तपः-अनशनादि पुरुषकारश्च-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः-पूर्वोक्ता एव, एतदुपदिश्यते खलु-श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र क्वचिदसावुपदेशः कथाया आक्षेपण्या रसो-निष्यन्दः सार इति गाथार्थः ॥१९५॥