________________
९८
चतुर्विधा था किमरे भागिनेय ! स्थीयते ?, शृगालेन भणितं - ओमिति मातुल !, सिंहो भणति - किमेतत् मृतमिति, शृगालो भणति हस्ती, केन मारित: ?, व्याघ्रेण सिंहश्चिन्तयति कथमहमूनजातीयेन मारितं भक्षयामि ?, गतः सिंहः, नवरं व्याघ्र आगतः, तस्मै कथितं सिंहेन मारितः, स पानीयं पातुं निर्गतः, व्याघ्रो नष्टः, एष भेदः, यावत् काक आगतः, तेन चिन्तितं - यद्येतस्मै न ददामि ततः काक काकेति वासितशब्देनान्ये काका एष्यन्ति तेषां काकरटनशब्देन शृगालादयोऽन्ये बहव एष्यन्ति, कियतो वारयिष्यामि ?, तस्मादेतस्मै उपप्रदानं ददामि, तेन ततस्तस्मै खण्डः छित्त्वा दत्तः, स तं गृहीत्वा गतः, यावच्छृगाल आगत:, तेन ज्ञातं - एतस्य हठेन वारणं करोमि, भृकुटिं कृत्वा वेगो दत्तः, नष्टः शृगालः ।) उक्तं च
" उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन सदृशं च पराक्रमैः ॥ १ ॥ ॥१८९॥ ॥१९०॥ ॥१९१॥ इत्युक्तः कथागाथाया भावार्थ:, उक्ताऽर्थकथा, साम्प्रतं कामकथामाह रूवं वओ य वेसो दक्खत्तं सिक्खियं च विसएसुं । दिट्टं सुयमणुभूयं च संथवो चेव कामकहा ॥ १९२॥
(छाया- रूपं वयः च वेषः दक्षत्वं शिक्षितं च विषयेषु । दृष्टं श्रुतमनुभूतं च संस्तवः चैव कामकथा ॥१९२॥)
व्याख्या रूपं सुन्दरं वयश्चोदग्रं वेषः उज्ज्वलः दाक्षिण्यं मार्दवं, शिक्षितं च विषयेषु - शिक्षा च कलासु, दृष्टमद्भुतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च-परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च -
-
-
“यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् । दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ॥१॥"
इति, वेष उज्ज्वलः कामाङ्ग, 'यं कञ्चन उज्ज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि " पञ्चालः स्त्रीषु मार्दवम्" इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात्, उक्तं च
-
“कलानां ग्रहणादेव, सौभाग्यमुपजायते ।
देशकालौ त्वपेक्ष्यासां, प्रयोगः संभवेन्न वा ॥१॥"