SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ९७ चतुर्विधा कथा अभिसित्तो, अणेगाणि सयसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवइ । दक्खत्तणं ति दारं गये। __ (छाया - तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः सन्दिष्टः - अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स गतः करणशालां, तत्र च तृतीयो दिवसो व्यवहारं छिन्दतः, परिच्छेदं न गच्छति, द्वे सपत्न्यौ, तयोर्भर्त्तापरतः, एकस्याः पुत्रोऽस्ति इतराऽपुत्रा च, सा तं दारकं स्नेहेनोपचरति भणति च - मम पुत्रः, पुत्रमाता भणति च - मम पुत्रः, तयोर्न परिच्छिद्यते, तेन भणितं - अहं छिनद्रि व्यवहारं, दारको द्विधा क्रियतां द्रव्यमपि द्विधैव, पुत्रमाता भणति - न मे द्रव्येण कार्यं दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रं, इतरा तूष्णीका तिष्ठति, तदा पुत्रमात्रे दत्तः, तथैव सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणितः - अद्य राजपुत्र ! भवता पुण्याधिकेन योगवहनं वोढव्यं, एवं भवत्विति, ततो राजपुत्रस्तेषां पार्वात् निर्गत्योद्याने स्थितः, तस्मिश्च नगरेऽपुत्रो राजा मृतः, अश्वोऽधिवासितः, यस्यां वृक्षच्छायायां राजपुत्रो निषण्णो न सा परावर्तते, ततोऽश्वेन तस्योपरि स्थित्वा हेषितं, राजा चाभिषिक्तः, अनेकानि शतसहस्राणि जातानि, एवमर्थोत्पत्तिर्भवति । दक्षत्वमिति द्वारं गतम् ।) इयाणि सामभेयदण्डुवप्पयाणेहिं चउहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं - सियालेण भमंतेण हत्थी मओ दिट्ठो, सो चितेइ - लद्धो मए उवाएण ताव णिच्छएण खाइयव्वो, जाव सिंहो आगओ, तेण चिन्तियं - संचिद्वेण ठाइयव्वं एयस्स, सिंहेण भणियं - किं अरे ! भाइणेज्ज अच्छिज्जइ ?, सियालेण भणियं - आमंति माम !, सिंहो भणइ - किमेयं मयं ति ?, सियालो भणइ - हत्थी, केण मारिओ ?-वग्घेण, सिंहो चिंतेइ-कहमहं ऊणजातिएण मारियं भक्खामि ?, गओ सिंहो, णवरं वग्यो आगओ, तस्स कहियं - सीहेण मारिओ, सो पाणियं पाउं णिग्गओ, वग्यो णट्ठो, एस भेओ, जाव काओ आगओ, तेण चिन्तियं - जइ एयस्स ण देमि तओ काउ काउत्तिवासियसद्देणं अण्णे कागा एहिति, तेसि कागरडणसद्देणं सियालादि अण्णे बहवे एहिति, कित्तिया वारेहामि, ता एयस्स उवप्पयाणं देमि, तेण तओ तस्स खंडं छित्ता दिण्णं, सो तं घेत्तूण गओ, जाव सियालो आगओ, तेण णायमेयस्स हठेण वारणं करेमित्ति भिउडि काऊण वेगो दिण्णो, गट्ठो सियालो, (छाया - इदानीं सामभेददण्डोपप्रदानैश्चतुर्भिर्यथाऽर्थ उपाय॑ते, अत्रेदमुदाहरणं - शृगालेन भ्राम्यता हस्ती मृतो दृष्टः, स चिन्तयति - लब्धो मयोपायेन तावन्निश्चयेन खादितव्यः, यावत्सिंह आगतः, तेन चिन्तितं - एतस्य सचेष्टेन स्थातव्यं, सिंहेन भणितं -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy