SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रथमा षट्त्रिशिका अथ गुरुगुणषट्त्रिंशत्षट्त्रिशिकासु प्रथमां षट्त्रिशिकामाह मूलम् - चउविहदेसणकहधम्मभावणासारणाइकुसलमई । चडविहचउझाणविऊ, छत्तीसगुणो गुरू जयउ ॥२॥ छाया - चतुर्विधदेशनाकथाध-र्मभावनास्मारणादिकुशलमतिः । चतुर्विधचतुर्ध्यानविद्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२॥ प्रेमीया वृत्तिः - चतुर्विधदेशनाक थाधर्मभावनास्मारणादिकुशलमतिःचतुर्विधासु देशनासु, चतुर्विधासु कथासु, चतुर्विधेषु धर्मेषु, चतुर्विधासु भावनासु, चतुर्विधासु स्मारणादिषु कुशला चतुरा मतिः प्रज्ञा यस्येति तथा, तथा चतुर्विधचतुर्ध्यानविद्-प्रत्येकं प्रत्येकं चतुर्विधानि चत्वारि ध्यानानि वेत्तीति तथा, इत्थं षट्त्रिंशद्गुणः- षट्त्रिंशत्सङ्ख्या गुणा यस्येति तथा, गुरुः - प्रागुक्तशब्दार्थः, जयतु सर्वत्राऽस्खलितप्रसरो भवत्विति सङ्क्षेपार्थः । विस्तरार्थस्त्वयम् – देशना - परप्रतिपादनपरा वचनपद्धतिः । सा चतुर्विधा । तद्यथा १ आक्षेपिणी, २ विक्षेपिणी, ३ संवेजनी ४ निर्वेदिनी च । एतासां स्वरूपमग्रे चतुर्विधकथाविवरणे प्रदर्शयिष्यते । - कथ्यते इति कथा । सा चतुर्विधा । तद्यथा १ अर्थकथा, २ कामकथा, ३ धर्मकथा ४ मिश्रकथा च । एतासां स्वरूपमेवं प्रतिपादितं श्रीदशवैकालिकसूत्रतृतीयाध्ययननिर्युक्तौ तस्याश्च हारिभद्रीयवृत्तौ - 'साम्प्रतं कथामाह - 1 अत्थकहा कामकहा धम्मकहा चेव मीसिया य कहा । तो एक्केक्कादि य णेगविहा होइ नायव्वा ॥ १८८ ॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy