SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५६ 5 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] इतश्च जिनदासोऽभून्मथुरायां पुरा वणिक् । प्रत्याचख्यौ स धर्मात्मा चतुष्पदपरिग्रहम् ॥५५५॥ तत्प्रियाया विवेकिन्याः साधुदास्या दधिक्रये । आनयन्ती दधिश्रेष्ठमाभीरी काऽपि सख्यभूत् ॥५५६॥ तयैकदा सुतोद्वाहे श्रेष्ठिनौ तौ निमन्त्रितौ । ऊचतुर्न क्षणो भद्रे ! कश्चिदागन्तुमावयोः ॥५५७॥ अथास्यै ददतुर्वित्तचीरालङ्करणादि तौ । तेनाप्तस्वजनक्षोभः शोभनोऽभून्महोत्सवः ॥५५८॥ आभीरीबन्धवः प्रीतिबन्धुरास्तरुणौ ततः । अनन्यतुल्यावन्योन्यतुल्यौ च वृषभावुभौ ॥५५९।। कम्बलः शम्बलश्चेति ख्यातौ श्रेष्ठ्यर्थमानयन् । श्रेष्ठिनोऽनिच्छतोप्येते द्वारि बद्ध्वा बलादगुः ॥५६०॥ युग्मम् ॥ श्रेष्ठी दध्यौ च मुञ्चेऽमू यदि क्लेश्यौ तदाधमैः । न मुञ्चेऽथ ततो भङ्गः प्रत्याख्यानस्य मे भवेत् ॥५६१॥ पातितोऽहं महामूर्खः स्नेहेनेहातिसङ्कटे । पुष्यामि कृपयैवैतावपरिग्रहधीस्ततः ॥५६२॥ प्रासुकेन तृणेनाथ पाथसा गलितेन सः । परिग्रहीव कृपयाऽपुष्यत् तावपरिग्रही ॥५६३।। 10 सुधीः पर्वसु सर्वेषु धर्मशास्त्रमवाचयत् । श्रेष्ठीन्दुरुपवासात्तपौषधः शृण्वतोस्तयोः ॥५६४।। धर्मोक्तिभिः प्रभूताभिरभूतां भद्रकौ च तौ । तत्रायचरतां नैतौ श्रेष्ठी नाभुङ्क्त यत्र सः ॥५६५।। तदाद्यपशुबुद्ध्या तौ सार्मिकधियाऽपुषत् । श्रेष्ठी पशुग्रहप्रत्याख्यानभङ्गभयोज्झितः ॥५६६॥ अण्डीरैस्तत्र भण्डीरमणयक्षस्य यात्रिकैः । प्रारेभे वाहनव्यूहवाहकेलिच्दान्यदा ॥५६७॥ अपृष्ट्वा जिनदत्तस्य वयस्यः कौतुकी तदा । वृषभौ वाहवादाय तावादाय द्रुतं गतः ॥५६८॥ अंही वेगगुणस्येव रूपश्रिय इवाम्बके । वाहिन्यां योजयामास जिनदासस्य तौ सुहृत् ॥५६९॥ माहात्म्यं सौकुमार्यं च मन्दधीरविदंस्तयोः । उत्प्राजनप्रहाराभिराराभिः स व्यथां व्यधात् ॥५७०॥ चित्रीयमाणसञ्चारौ चारौ तत्र जयोदये । चरमीचक्रतुश्चक्रवर्तिनोऽपि वृषानिमौ ॥५७१॥ त्वराभिस्त्रुटितावन्तराराभिश्छुटितासृजौ । जितपौर: स तौ श्रेष्ठिधाम्नि बद्ध्वाऽधमोऽगमत् ॥५७२।। श्रेष्ठी तौ वीक्ष्य तादृक्षौ निजगाद विषादवान् । क: साधर्मिकबन्धू मे निन्येऽवस्थामिमाविमाम् ॥५७३॥ जनान्मित्रचरित्रं तन्मत्वा हाहेति भाषकः । स तौ पस्पर्श पाणिभ्यां सान्त्वनोक्तीस्ततान च ॥५७४॥ अढौकयत् पयस्तृण्यां दुग्धमन्नादि च स्वयम् । नाजिघ्रतां च घ्राणेन दृशा नापश्यतां च तौ ॥५७५॥ हृद्भावजस्तयोर्दत्त्वाऽनशनं तत्र स स्थितः । भवप्रपञ्चं कथयन् ददत् पञ्चनमस्कृतीः ॥५७६।। सुसमाधी च तौ मृत्वा जातौ नागकुमारको । श्रीवीरं सङ्कटे मत्वा तदा तत्रेयतुर्दुतम् ॥५७७॥ योद्धुमेकेन रुद्धोऽथ सुदाढो गाढविक्रमः । अपरेण करे कृत्वा सरित्तीरमनायि नौ ॥५७८॥ 25 नद्यामिवापदि स्वामिंस्त्वत्प्रभावोऽद्य नौरभूत् । इदं वदन्तोऽवन्दन्ताऽऽनन्दिनो नौजना जिनम् ॥५७९॥ कम्बलः शम्बलश्चाहिकुमारौ तु जिताहितौ । नत्वेशं पुष्पगन्धाम्बुवर्षिणौ हर्षिणौ गतौ ॥५८०॥ १. जनाक्षोभ: L । २.नेमौ B, KI टि. 1. बलिष्ठैः इत्यर्थः श० र० म०भा० १ पृ. ३७ । दुविनीतैः K टि० पावें । 2. अङ्गवतः वेगगुणस्य द्वौ अंही इव, अतिवेगवन्तौ इत्यर्थः, तथा अङ्गिन्याः रूपश्रियः द्वे नेत्रे इव, अतिरूपवन्तौ इत्यर्थः । 3. तृण्या(स्त्री)-तृणसमूहः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy