________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
उत्तीर्य तर्याः कृत्वेर्यापथस्याथ प्रतिक्रमम् । विजहार विभुः कुर्वन् पदैः सैकतमङ्कितम् ॥५८१॥ तां पुष्पो नाम सामुद्रवेदिता पदपद्धतिम् । चक्राद्यङ्कां प्रभोः प्रेक्ष्य दध्यौ चक्रीह कोप्यगात् ॥५८२॥ अलब्धलक्ष्मीरद्यापि हृतश्रीरथवा भ्रमन् । एकाकी लभ्यते सोऽद्य क्व सेवावसरः प्रभोः ॥५८३॥ इत्यगात् तत्पदालोकी स स्थूणाके निवेशने । अशोकस्य तलेऽपश्यत् प्रभुं च प्रतिमास्थितम् ॥५८४॥ उत्तरोत्तरसर्वाङ्गलक्षणे लक्षिते प्रभौ । विस्मितश्च विषण्णश्च पुष्पोऽचिन्तयदित्ययम् ॥५८५॥
5 अहो लक्षणसामग्री चक्रित्वाधिकसूचिनीम् । दधदप्येष हा भिक्षुधिक् शास्त्रं धिग् च तत्श्रमम् ॥५८६॥ अयं भिक्षुरभाग्यैर्वा ममैवाश्रयतोऽभवत् । कृष्णाङ्गारत्वमायाति निष्पुण्यस्य न किं निधिः ॥५८७।। कथं विहरति स्वामीत्युपयुक्तस्तदा हरिः । पुष्पं वीक्ष्य विषीदन्तं महाऽद्भुतमाययौ ॥५८८॥ प्रभुं नत्वा च नुत्वा च पुष्पं प्रोवाच वासवः । किमु निन्दसि शास्त्राणि सत्यं सत्यानि तानि भोः ॥५८९॥ वीक्षसे लक्षणव्यूहं बाह्यं चक्रित्वहेतुकम् । न त्वान्तरं प्रभोरस्य त्रिविश्वैश्वर्यसूचकम् ॥५९०॥
10 अदृश्याहारनीहारं हारगौरास्रजङ्गलम् । अनामयं मलस्वेदहीनमस्य प्रभोर्वपुः ॥५९१॥ यद्यद् भवति दुर्गन्धिद्रव्यं मध्येऽङ्गमङ्गिनाम् । तदप्यस्य सुरभ्येव दिश्यते श्वाससौरभैः ॥५९२॥ सेव्योऽयं फलमिच्छद्भिश्चक्रिशक्रादिभिः सदा । तत्याज राज्यमेकाकी जिगीषुर्दुर्जयं भवम् ॥५९३॥ स्वमभाग्यं च मा मंस्था निर्भाग्यैर्नैष वीक्ष्यते । इत्युक्त्वा च कृतार्थं तं कृत्वा च द्यां ययौ हरिः ॥५९४॥ नाथोऽपि विहरन् प्राप पुरे राजगृहे गृहम् । नालन्दायां बहिः क्ष्मायां तन्तुवायस्य कस्यचित् ॥५९५॥ 15 तन्तुवायं तमापृच्छ्य वर्षास्थितिकृते विभुः । तद्गृहैकतटे तस्थौ मासक्षपणभासुरः ॥५९६॥ इतश्च मङ्खलिमङ्खोऽभवद् भद्रा च तत्प्रिया । भुवं व्यहरतां चित्रपट्टिकां दधतौ च तौ ॥५९७॥ सुतं गोबहुलाह्वस्य गोशालायामसूत सा । भद्रा शरवणग्रामे गोशालो विश्रुतः स तत् ॥५९८॥ अभ्यस्तमङ्खशिल्पोऽयं शठो नित्यं कलिप्रियः । प्रकोप्य पितरौ निर्यन्नहार्षीच्चित्रपट्टिकाम् ॥५९९॥ भिक्षाभुक् स भ्रमन्नेत्य तमापृच्छय कुविन्दकम् । तच्छालायां विशालायां समीपे स्वामिनः स्थितः ॥६००॥ 20 नाथोऽपि पारणेऽविक्षद् विजयश्रेष्ठिनो गृहम् । शुद्धभक्तेन तेनातिभक्तेन प्रतिलाभितः ॥६०१॥ सुरव्यूहैरहोदानं सुदानं चेति भाषिभिः । पञ्चभिर्वसुवृष्ट्याद्यैर्दिव्यैरद्योति तद्गृहम् ॥६०२॥ गोशालोऽपि निशम्येदं दध्यौ कोऽप्येष सन्मुनिः । यस्मै दानं ददानस्य श्रीरायात्यालयं स्वयम् ॥६०३॥ अद्य पाखण्डमाखण्ड्य तच्चित्रफलकं निजम् । भविष्याम्यस्य शिष्योऽहं फलत्येवेदृशो गुरुः ॥६०४॥ तत्रेति चिन्तयत्येत्य स्थितः प्रतिमया प्रभुः । नत्वा चोवाच गोशालः शिष्योऽहं त्वं गुरुः प्रभो ! ॥६०५॥ 25
१. चिन्तयन्नेत्य स्थितं प्रतिमया प्रभु-B, A, LI टि. 1. हार इव गौरे अस्रजङ्गले-शोणितमांसे यस्य तद् इति समासविग्रहः । सम्पा० ।