________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
अनुज्ञातोऽथ नाथेन गृहीतानशन: फणी । विषोग्रस्वाक्षिरोधाय तुण्डं क्षिप्त्वा बिले स्थितः ॥५३१॥ समतालीनचित्तस्य ममतारहितस्य च । कृपया तस्य तत्रैव स त्रैलोक्यगुरुः स्थितः ॥५३२॥ नाथं तथास्थितं वीक्ष्य गोपालैरेत्य विस्मितैः । वृक्षान्तरचरैर्जघ्ने यथेष्टं लेष्टुभिः फणी ॥५३३॥ तथाप्यविकृतं वीक्ष्य विश्रम्भादेत्य तेऽभितः । यष्टिभिर्घट्टयामासुर्वासोमयमिवोरगम् ॥५३४॥ जनश्रुतिं जनः श्रुत्वा तत्रैत्यावन्दत प्रभुम् । तं चातिविस्मयादस्तौदस्तौग्र्यमुरगोत्तमम् ॥५३५॥ तक्रविक्रयकारिण्यः सञ्चारिण्य: पथामुना । विनीता नवनीतेनालिम्पन् पस्पृशुरप्यहिम् ॥५३६॥ हूता हैयङ्गवीनस्य नवीनस्य रसेन तम् । तेनिरे तितउप्रायं तीव्रतुण्डाः पिपीलिकाः ॥५३७॥ मदुर्गतिमुषामासामङ्गभङ्गः स्म मा भवत् । इत्यल्पमपि नाचालीत् फणी पातुं पिपीलिकाः ॥५३८॥ या कृतेवामृतेनोच्चैर्यत्कृतेवैन्दवीतनुः । तत्राक्षिपत्कृपालुस्तां स्वामी स्वामीदृशीं दृशम् ॥५३९॥ अथ पक्षान्तपूर्णायुः सहस्त्रारमहिर्ययौ । इति तस्योपकृत्यागाच्चावालं चोत्तरं प्रभुः ॥५४०।। देशान्तरचिरायातसुतस्योत्सवकारिणः । गृहिणो नागदत्तस्य भोजितस्वजनाविले ॥५४१॥ गृहे विवेश पक्षान्तपारणाय जगद्गुरुः । भक्त्याभ्युत्थाय सोऽपीशं पयसा प्रत्यलाभयत् ॥५४२॥ युग्मम् ॥ अहो दानमहोदानमित्यथाऽऽनन्दिनः सुराः । तद्गृहं रत्नवृष्ट्यादिपञ्चदिव्यैरदिव्ययन् ॥५४३॥ गतोऽथ श्वेतवीं स्वामी तदीशेन प्रदेशिना । महोत्सवभृता भक्तिधृतानन्देन वन्दितः ॥५४४॥ सम्प्राप्तः सुरभिपुरं पुरं विश्वगुरुस्ततः । अगादध्वन्यगाहच्च तत्त्वद्धिमिव जाह्नवीम् ॥५४५॥ तां तितीर्घः प्रभुः सिद्धदत्तनाविकसज्जिताम् । आरूढश्चरणोत्तीर्णभवाब्धिरपि मङ्गिनीम् ॥५४६॥ आरूढाध्वन्यलोका च नौश्चचाल चुकूज च । तटे घूकस्ततः क्षेमिलाख्यः शाकुनिको जगौ ॥५४७॥ आसाद्यं सद्य एवाद्य नौजनैर्व्यसनं महत् । तस्मात् मोक्षामहे मोक्षाध्वगस्यास्य प्रभावतः ॥५४८॥ अदस्तस्मिन्वदत्येव नदीगर्भं जगाम नौः । सुदाढाख्यस्तदा नागकुमारः प्रभुमैक्षत ॥५४९॥ त्रिपृष्ठभवनिष्पिष्टः सिंहजीव: स वैरतः । दध्यौ वध्यो मयाद्यैष द्वेषपारं गमिष्यता ॥५५०॥ प्रत्यासन्नोऽपि मे मृत्यु शमद्य भयाय न । काममेतन्निपातेन गमिष्यामि कृतार्थताम् ॥५५१॥ इति निश्चित्य निश्चेष्टान् जन्तून् कोलाहलैः सृजन् । रे तिष्ठाद्य क्व यासीति नभस्थः प्रभुमभ्यधात् ॥५५२॥ अथ लोलन्महीगोलश्चलाचलकुलाचलः । उच्छलज्जलधिस्तेन वितेने कोऽपि मारुतः ॥५५३॥ अथोग्रलहरिन्यञ्चदुदञ्चन्नौचरा नराः । यमाञ्जलिगतंमन्याः स्वं स्वं दैवतमस्मरन् ॥५५४॥
20
१. वासो नवमिव...A, P, H, B | २. न्यगाधाम्बुं तत्त्वधि...KH | न्यगाधवत्वतत्वद्धि-B |
टि. 1. चालणीप्रतिमं टिO K। चालणीसदृशं टि. B2. मम दुर्गति मुष्णाति इति मदुर्गतिमुट्, तासाम्। 3. या दृष्टिरुच्चैरमृतेन कृता इव यया च (दृष्ट्या) कृता ऐन्दवीतनुः= चन्द्रस्य तनुः, इदृशीं तां स्वां दृशं कृपालुः स्वामी तत्राऽक्षिपत्, इत्यर्थः । 4. नावं K टि० । 5. आरूढाऽध्वन्यलोकाः यस्यां सा नौः इति बहुव्रीहिः ।