________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
वीरघोषेन्द्रशाणौ कर्मकृत्-गृहिणौ किमु । तिष्ठतोऽत्रेति तौ श्रुत्वास्त इत्युक्त्वाग्रतः स्थितौ ॥४८२॥ तौ सिद्धार्थोऽभ्यधात्पूर्वं नष्टं पात्रं हुङश्च वाम् । अच्छन्दकस्तयोश्चौरः क्रूरात्मा ज्ञानदाम्भिकः ॥४८३॥ भाजनं गृह्यतां गत्वा पश्चाद्भागे तदौकसः । तदस्ति हस्तमात्रेण क्षिप्तं शिग्रुतरोरधः ॥४८४॥ भुक्तस्तु पापिना तेनाऽऽखण्ड्य पाखण्डिना हुडुः । तदस्थिपुञ्जस्तत्रास्तेऽवकरे बदरीतले ॥४८५॥ गत्वाथ कौतुकाद् ग्राम्यास्तद्वीक्ष्यागत्य विस्मयात् । न त्वद्वाक् क्वाप्यसत्येति प्रणमन्तोऽवदन् जिनम् ॥४८६॥ 5 पुनर्देवो जगौ किञ्चिदन्यत् तस्यास्ति चेष्टितम् । जल्पतां शृण्वतां वा यत् पापं नः शङ्कते मनः ॥४८७॥ ग्राम्यैरथाग्रहात्पृष्टः स जगौ न वदाम्यहम् । यदि वः कौतुकं श्रोतुं तत्तद्भायैव पृच्छयताम् ॥४८८॥ गतैश्च तद्गृहे चारुदती सा रुदती जनैः । दृष्टा पृष्टा च तद्दुःखहेतुमेतदभाषत ॥४८९॥ अच्छन्दकेन स्वच्छन्दचारिणा पापकारिणा । स्वां स्वसारमसारेण भजता भत्सितास्म्यहम् ॥४९०॥ स्वसुर्भर्त्तरिति क्रोधादुक्त: संताड्य सोऽद्य माम् । गतः साध्वङ्गलिच्छेदं जनात् खेदं च लब्धवान् ॥४९॥ 10 इति दुश्चरितं तस्य ख्यातं चौर्यादि पापिनः । इष्टदैवतवद्यूयं चिन्तयन्त्या ममागताः ॥४९२॥ श्रुत्वेति ते कलकलोद्दामा जग्मुः स्वधामसु । न च पापीति स क्वापि भिक्षामप्याप भिक्षुकः ॥४९३।। जिनेशं विजने गत्वा दीनो नत्वाऽभ्यधत्त सः । स्वामिन् ! मयापराद्धं यत्तत्क्षमस्व व्रजाऽन्यतः ॥४९४।। त्वं सर्वत्रापि पूज्योऽसि पूजात्रैव पुनर्मम । त्वयि स्थिते क्व पूज्योऽहं खद्योत इव भास्वति ॥४९५॥ अप्रीतिमत्क्षितित्यागाभिग्रही भवविग्रही । प्रभुरुत्तरचावालनिवेशायाचलत् ततः ॥४९६॥ द्वौ दक्षिणोत्तरौ ख्यातौ यौ चावालौ तदन्तरे । सुवर्णवालुकारूप्यवालुके सरितौ मते ॥४९७॥ दक्षिणादुत्तरं यातश्चावालं कण्टकेऽलगत् । सुवर्णवालुकातीरे देवदूष्यार्द्धमीशितुः ॥४९८॥ किञ्चिद् गत्वाथ मा भ्रष्टमिदमस्थण्डिले स्म भूत् । इति व्यालोक्य वस्त्रार्द्धं गन्तुं प्रावर्तत प्रभुः ॥४९९॥ पृष्टिलग्न: समं भ्रान्तः स तु मासांश्चतुर्दश । च्युतं चीरार्द्धमादाय प्रभुं नत्वा ययौ द्विजः ॥५००॥ तन्तुवायस्तु ते अर्द्ध अयोजयदसन्धिवत् । दीनारलक्षं तन्मूल्यमर्द्धमर्द्धमभूत्तयोः ॥५०१॥ श्वेतवीं तु व्रजन्नीशो गोपालैर्जगदे मुहुः । मा कथञ्चन देवार्य ! निगमेनामुना गमः ॥५०२॥ इतोऽस्ति शून्यः कनकखलाख्यस्तापसाश्रमः । तदन्तर्दृग्विषो व्यालः कालरात्रेरिवोद्यमः ॥५०३॥ दृग्पाते तस्य सञ्जाते जन्तुजातेः कथामुषि । ज्वलत्यमूर्तिमद्व्योम क्षित्यादेः का कथा पुनः ॥५०४॥ तन्मार्गमृजुमप्येनं त्यज क्रूराहिवक्रितम् । श्वेतवीं व्रज वक्रेणाप्यविघ्नऋजुनामुना ॥५०५॥
15
20
१. चारुदन्ती - D, K | २. ख्याति- A, B | ख्यातुं KH, H | ३. लेऽप्य P | ४. ज्वलत्यरूपमाकाशं-A, B, KH, HI ज्वलत्यत्यसदपि...का कथा सत:-P, D, KI
टि. 1. चूर्णीकृत्य टि. B पार्वे । 2. असार: तुच्छता तया । 3. पृष्टिः (स्त्री०) पृष्ठः । 4. मार्गेण टिO KI