SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५२ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] विश्वोत्ताल ! स्वयं तालपिशाचो यत्त्वया हतः । आक्रान्तलोकसन्दोहं मोहं तेन हनिष्यसि ॥४५७॥ शुक्लचित्रौ त्वया दृष्टौ सेवमानौ च यत् पिकौ । तत् ते भावि सितध्यानं द्वादशाङ्गी च देक्ष्यसि ॥४५८॥ गोसङ्घदर्शनात् सङ्घश्चतुर्द्धा ते भविष्यति । यत्तु पद्मसरोऽदर्शि त्रिदशैस्तेन सेव्यसे ॥४५९॥ दोर्ध्यामब्धिर्यदुत्तीर्णस्तदुत्तीर्णस्त्वया भवः । आलोक्यत यदर्कस्तदुदर्कस्तव केवलम् ॥४६०॥ यन्मानुषोत्तरः स्वान्त्रैर्बद्धस्तत्तेऽद्भुतं यशः । मेरोरारोहणाद्वक्ता धर्म सिंहासनस्थितः ॥४६१॥ नवानामिति जानामि स्वप्नानामियती दशाम् । दृष्टे सुगन्धिनी दाम्नी यत्तु वेद्मि न तत्फलम् ॥४६२॥ अथाचष्ट विभुः स्पष्टमिदं दामद्वयीफलम् । गृहस्थानां यतीनां च धर्मों वक्ष्यामि निर्मलौ ॥४६३॥ नत्वाथ ते जिनं सर्वे ययुर्वेश्म सुविस्मिताः । तत्रार्द्धमासक्षपणैश्चतुर्मासी जिनोऽत्यगात् ॥४६४॥ अर्हन् ! विषहमानेन क्लेशावेशान् स्वयं त्वया । अहं मज्जन् भवाम्भोधौ बोधौ नावीव रोपितः ॥४६५॥ नि:सन्धिबन्धो ! निस्सङ्ग ! सङ्गमोऽस्तु त्वया पुनः । क्व वा मुहुरियद्भाग्यं के वा न स्युर्मनोरथाः ॥४६६॥ इत्यादिवादिना भक्त्या प्रणतः शूलपाणिना । प्राणिनामभयं यच्छन्नगच्छत् प्रभुरन्यतः ॥४६७॥ [त्रिभिवि०] दीक्षातोऽब्दे गते स्वामी मोराकेऽगान्निवेशने । तदुद्याने प्रतिमया विश्वकल्पतरुः स्थितः ॥४६८॥ अच्छन्दकस्य ज्योतिष्कमन्त्रपाखण्डजीविनः । तत्रासहिष्णुर्माहात्म्यमर्हदर्चाभिलाषुकः ॥४६९॥ सिद्धार्थव्यन्तर: स्थित्वा सिद्धार्थसुतवमणि । सद्यः कालत्रयाख्यानैः सम्यग् ग्राम्यानमोदयत् ॥४७०॥ युग्मम् ।। ग्राम्याश्चाऽभिदधुर्गामे युष्मत्तुल्योऽस्ति भाववित् । सिद्धार्थः स्माह तस्येयमकिञ्चिज्ज्ञस्य जीविका ॥४७१।। गत्वाऽथ कौतुकाद् ग्रामं ग्राम्या अच्छन्दकं जगुः । न किञ्चिद्वेत्सि देवार्यः सर्वं वेत्त्यागतोऽत्र यत् ॥४७२।। स जगौ सत्सु युष्मासु स ज्ञानी न मयि स्थिते । तमस्सु सत्सु खद्योतो द्योतते नोदिते रवौ ॥४७३॥ ज्ञास्यामि यद्यसौ ज्ञानं मत्पृष्टः कथयिष्यति । इत्युक्त्वा सोऽगमत् प्रष्टुं ग्राम्यैः कौतुकिभिर्वृतः ॥४७४॥ माहात्म्यभङ्गभीर्बिभ्रन् तृणमच्छन्दकः करे । धियाऽन्यथा करोम्यस्य ज्ञानमित्याशया हसन् ॥४७५॥ 20 प्रभुं पप्रच्छ केनेदं वद भक्ष्यामि पाणिना। स्वामिस्थ: स्माह सिद्धार्थो नेदं भो ! भज्यते त्वया ॥४७६॥ युग्मम् ।। श्रुत्वेत्यावेशतो भक्तुं तृणमभ्युद्यतश्च सः । कथं विहरते स्वामी दध्यौ चेदं तदा हरिः ॥४७७॥ दृष्ट्वा तच्चरितं मा वाग् जिनास्योत्था मृषाऽस्त्विति । अच्छन्दकस्य चिच्छेद वज्रणेन्द्रो दशाङ्गुलीः ॥४७८॥ अथाऽच्छिन्नतृणश्छिन्नाङ्गुलिरच्छन्दकोऽन्यतः । हस्यमानो जनैः शून्यमना मूढ इवागमत् ॥४७९॥ अनारतं नमन् पुष्पमालामलयजादिभिः । जनः प्रीतिमना ग्राम्यः स्वाम्यर्चामसृजत् ततः ॥४८०॥ 25 अतृप्तः स्वामिपूजायामिवाच्छन्दकभर्त्सने । सिद्धार्थः पुनरप्याह ग्राम्यान् स्वाम्याननस्थितः ॥४८१॥ 15 १. प्रीतमना - L, AI टि. 1. असम्बन्धबन्धुः, तत्संबोधने । अवधिरहितः टि० B पार्वेऽर्थो बोधितः । 2. चित्तवित् टि० B पार्वेऽर्थो लिखितः । 3. ज्ञानम् अस्ति अस्य इति ज्ञान: तं ज्ञानं ज्ञानिनम् इत्यर्थः । सम्पा० ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy