________________
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] ग्रामीणैरघृणैरेष गृहीतद्रविणैरपि । वृषः पयोऽपि नापायि दूरे पालनलालना ॥४०७।। स्वामिदत्तं स्मरन्वित्तं ग्रामे कामितमत्सरः । उक्षा तृषाबुभुक्षार्तो मृत्वेह व्यन्तरोऽभवत् ॥४०८॥ स्मृतप्राग्जन्मवृत्तेन व्यन्तरेणामुना ततः । व्यकारि मारिरत्रारिरूपग्रामीणमारिणी ॥४०९॥ अश्रान्तविलसन्मारिक्रीडारजतपर्वताः । इहाऽस्थनां कोटिशः कूटास्तदेते परितोऽभवन् ॥४१०॥ न्यवर्त्तत यदा मारिन शान्तिकशतैरपि । ततोऽभीतिवधूकाम्या ग्राम्या ग्रामान्तराण्यगुः ॥४११॥ यतो यतोऽगमन् ग्राम्या दुःखतापौघदायिनी । क्रूरा करगृहीतेव ययौ मारिस्ततस्ततः ॥४१२॥ भक्त्या प्रसादयिष्यामः कुपितं किञ्चिदित्यथ । महोद्वेगात्पुनर्वेगाद् ग्रामं तेऽमुं समागमन् ॥४१३॥ स्नाता धौतांशुका मुक्तकेशाः क्लेशाकुलाश्च ते । वर्त्मन्यवर्त्मन्युद्याने खे क्षिपन्तो बलि जगुः ॥४१४॥ यः कोऽपि कोपितोऽस्माभिरज्ञानेन मदेन वा । असुरो वा सुरो वाऽसौ प्रसीदतु नता वयम् ॥४१५॥ गैर्वाणी खेऽभवद्वाणी युष्माभिरधमैस्तदा । प्रागुपात्तं वणिग्वित्तं महोक्षस्तु न पालितः ॥४१६।। स मृत्वा वः शिरःशूलं शूलपाणिः सुरोऽभवम् । कामं निष्ठापयिष्यामि युष्मन्नामापि वैरतः ॥४१७॥ श्रुत्वेति ते दिवि क्षिप्तधूपधूमबलिस्रजः । क्षितौ लुठन्तो दीनास्या जनिताञ्जलयो जगुः ॥४१८॥ अपराद्धं पुरास्माभिः सम्प्रत्याराध्यसे प्रभो ! । क्षाम्यं सर्वं प्रणामान्तः कोपो हि महतां मतः ॥४१९॥ इति तद्भक्तिभिः शाम्यदन्तरो व्यन्तरो जगौ । अस्थ्नां कूटं विरच्यैषां कुरुध्वं तत्र धाम मे ॥४२०॥ उक्षरूपानुसारेण सारपूजनराजिनीम् । मन्मूर्ति कुरुत क्रोडेऽमुष्य तुष्यामि तेन वः ॥४२१॥ कृत्वाथ तगिरं ग्राम्याः सम्प्रीताः स्फीतवेतनम् । आदिशन्निन्द्रशाणं तत्पूजाकर्मणि द्विजम् ॥४२२॥ निवृत्तमारिव्यसनो विस्तारिश्रीस्तदाद्ययम् । अस्थिकूटमिहास्तीति ग्रामोऽभूदस्थिकाह्वयः ॥४२३।। रात्रावत्र तु यः शेते व्यन्तरायतने जनः । स मृतः प्रेक्ष्यते प्रातस्तन्न स्थातुमिहोचितम् ।।४२४॥
पृथक् पृथगिति ग्राम्यैरुक्तो दत्तेतराश्रयः । स्वामी बोध्यं विदन् यक्षं तमेवार्थयताऽऽश्रयम् ॥४२५॥ 20 देवार्य ! वार्यमाणोऽपि यदि तिष्ठसि तिष्ठ तत् । त्वां हन्ति व्यन्तरश्चेत्तन्नानुज्ञादूषणानि नः ॥४२६॥
तैरित्युक्ते यथाकामी स्वामी प्रतिमया स्थितः । यक्षायतनकोणैकदेशे स्तम्भ इवाबभौ ॥४२७॥ सायं विधाय यक्षार्चाम_कृत् प्रभुमभ्यधात् । हेन्त्येष व्यन्तरो नक्तं स्थाता नाहमपीह तत् ॥४२८॥ युष्माभिरपि न स्थेयमित्युक्त्वा मौनिनि प्रभौ । निर्वास्य पथिकानन्यानिन्द्रशर्मा गृहं गतः ॥४२९॥
क्रुद्धो दध्यौ तदा यक्षः कः क्षयं स्पृहयत्ययम् । योऽविशद् वार्यमाणोपि यमास्य इव मद्गृहे ॥४३०॥ 25 तदेनं मक्षु हन्मीति यक्षः स क्षणदामुखे । जगत्त्रयभियामट्टमट्टहासमिहासृजत् ॥४३१॥
असङ्ख्याम्भोनिधिध्वानपिधानं तज्जनिध्वनिः । योगनिद्रानिलीनस्य गीतिकेवाभवत् प्रभोः ॥४३२॥
१. च-D । २. हतैष A, LI टि. 1. अट्ट-अत्यन्तोच्छ्रितम् ।