________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३]
४९ प्रभुं कुलपतिस्तत्र पितुः सुहृदुपस्थितः । पूर्वाभ्यासात्प्रभुस्तस्मिन्नपि तेने ततं भुजम् ॥३८२।। तेनैव तापसेनैकनिशावासकृतेऽर्थितः । स्थिरस्तत्रैकरात्रिक्या स्थितः प्रतिमया प्रभुः ॥३८३॥ आर्य ! कार्यस्त्वयाऽत्रैव प्रावृट्काल इति प्रगे । व्याजहार विहारोत्कमाग्रही तापसः प्रभुम् ॥३८४॥ भानुतप्तां भुवं स्वामी पदपद्धतिपङ्कजैः । पिधातुमिव कारुण्याद् विहरन् ग्रीष्ममत्यगात् ॥३८५॥ गिरं सिद्धार्थमित्रस्य स्मरन् कुलपतेस्ततः । प्रावृट्कालाय मोराकग्रामं स्वामी जगाम तम् ॥३८६॥ प्रभुः कुलपतिप्रत्तमध्यास्यैकं तृणोटजम् । तप:श्रीविभ्रमैस्तब्ध इव प्रतिमया स्थितः ॥३८७॥ क्षुत्क्षामकुक्षयः कामं ग्रीष्मक्षीणतृणे वने । गावोऽधावंस्तदा भोक्तुं तापसानां तृणोटजान् ॥३८८॥ तापसैरकृपैरेतास्ताडिता यष्टिलोष्टुभिः । एत्याखादन् कुटीं भर्तुः प्रतिमानिभृताकृतेः ॥३८९॥ तद्वीक्ष्य तापसाः कोपाद् गत्वा कुलपति जगुः । अलसो नीरसोऽनीहस्तवाऽयं क इवातिथिः ॥३९०॥ भक्षितं पश्यतोऽप्यस्य गोभिस्तृणकुटीरकम् । धर्मयोग्योटजत्राणात् तत्त्वतः कावकीर्णिता ॥३९॥ तवात्मेव प्रियोऽसौ तन्नास्माभिः किञ्चिदुच्यते । उन्मार्गगामिनां किं न शिक्षादानक्षमा वयम् ? ॥३९२॥ ततः कुलपतिर्गत्वा भ्रष्टं वीक्ष्योटजं स्वयम् । दध्यौ सत्यं वदन्त्येते तापसा न रुषा मृषा ॥३९३॥ अथाचष्ट प्रभुं तात ! त्रातः स्वोप्युटजो न किम् । तापसाश्रमलक्षाणि ररक्ष भवतः पिता ॥३९४॥ वीक्ष्येदृक्षं तवालस्यमनालस्यमना न तु । कुप्येत्तापसलोकोऽयमोको रक्ष्यं प्रयत्नतः ॥३९५॥ इतीरयित्वा सिद्धार्थसौहार्दधृतमार्दवः । ययौ कुलपतिर्विश्वपतिश्चेदमचिन्तयत् ॥३९६॥ स्यादेषामप्रियं कर्मबन्धकृन्मन्निबन्धनम् । न स्थातुमपि तल्लोके हितकर्तुर्ममोचितम् ॥३९७॥ अद्यप्रभृति न स्थेयं तदप्रीतिमतां गृहे । स्थातव्यमेव कायेन कायोत्सर्गजुषान्वहम् ॥३९८॥ प्रायः स्थेयं च मौनेन भोज्यं च करभाजने । विनयो न गृहस्थस्य रचनीयः कदाचन ॥३९९॥ इति वैराग्यतः पञ्चाभिग्रहमग्रहीत् प्रभुः । वर्षास्वप्यस्थिकग्रामं मासा नन्तरं गतः ॥४००॥ अधिवस्तुं तदा शूलपाणेर्यक्षस्य सद्मनि । तत्रानुज्ञापयन् स्वामी ग्रामीणैरभिभाषितः ॥४०१॥
20 ग्रामोऽयं वर्द्धमानोऽस्मिन्नस्ति वेगवती नदी । जम्बालमण्डली दुर्गमूलकूलद्वयोदया ॥४०२॥ इहाऽऽययौ धननिधिर्धनदेवोऽन्यदा वणिक् । सहस्रार्द्धमितैर्भारविकटैः शकटैर्वृतः ॥४०३।। एको महोक्षस्तस्याभून्यस्य धुर्यं स तं धुरि । निखिलान्यखिलात्पङ्काच्छकटान्युदतीतरत् ॥४०४॥ अथातिभारविधूरो रुधिरोर्मीन् वमन् मुखात् । स पपात वृषः क्ष्मायां कृतकृत्य इवाशुगः ॥४०५।। तत्पालनाय ग्रामाय वणिग् दत्त्वाधिकं धनम् । स्तुत्वापृच्छ्य वृषं दुःखवाह: सार्थमवाहयत् ॥४०६॥ 25
१. अखादन्नुटजं C, L, A । २. ०संकटै:-A, B, DI __ टि. 1. प्रदत्तं इत्यर्थः । सम्पा० । 2. ०भ्रमैः स्त० व्यत्यये लुग् वा [१।३।५६] इत्यनेन सन्धिः । 3. अवकीर्णिता-व्रतभङ्गस्य भावः । 4. आशुगः बाणः ।