________________
४७
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] यौवनद्योतिताङ्गेन भोगभागपि योगभाक् । प्रभुर्बभूव चित्तेन दधता वार्द्धकं शमात् ॥३३३॥ अनिच्छन्नप्यथ स्वामी पित्रोरेवोपरोधतः । अतिष्ठद् गृहवासे च पाणिग्रहममस्त च ॥३३४॥ राज्ञः समरवीरस्य यशोदां नन्दिनीमथ । प्रभुः पर्यणयन्मुक्तेः प्रियायाः सेर्प्यतां सृजन् ॥३३५॥ असक्तोऽपि तया साकं रेमे पितृमुदे प्रभुः । त्रैलोक्यनयनानन्दो निशयेव सुधाकरः ॥३३६॥ कालेनाभूत् प्रभोः पुत्री सत्याख्या प्रियदर्शना । व्यूढेयं राजपुत्रेण सत्कुलेन जमालिना ॥३३७॥ पितरौ जन्मतो भर्तुष्टाविंशेऽथ वत्सरे । कल्पितानशनौ मृत्वा कल्पमच्युतमीयतुः ॥३३८॥ क्षेत्रेऽपरविदेहे तावुत्पद्याच्युतविच्युतौ । मोक्षमारोक्ष्यतस्तादृग् वीतरागतरोः फलम् ॥३३९॥ कृतपित्रङ्गसंस्कारः पितृशोकेन विह्वलः । ज्येष्ठोऽथ बोधितो बन्धुः स्वामिना नन्दिवर्द्धनः ॥३४०॥ अनिच्छति च वैराग्याद् विभौ राज्यं स मन्त्रिभिः । राजा चक्रे जनानन्दवर्द्धनो नन्दिवर्द्धनः ॥३४१॥ स्वामिनाऽथ भवोद्वेगात् व्रतमादातुमिच्छता । आपृष्टः शोकसंक्लिष्टवाग् जगौ नन्दिवर्द्धनः ॥३४२॥ निर्दग्धे पितृशोकेन मयि लोके च केवलम् । त्वन्मुखालोकपीयूषसेकोऽनेकोऽस्ति भेषजम् ॥३४३॥ भ्रातः ! शोकच्छिदे ध्यातः क्षिपसीति कथं मयि । तरौ दावभिदे प्राप्तस्तडितं तोयदो यथा ॥३४४॥ भ्रातुः शोकातुरस्येति वाग्भिराीकृतः प्रभुः । सर्वसावधमुग् भावयतीभूय स्थितो गृहम् ॥३४५॥ इति वर्षं स्थितः स्वामी गृहे सद्ध्यानमानसः । तीर्थं प्रवर्तयेत्यूचे ततो लोकान्तिकैः सुरैः ॥३४६॥ ततः क्लृप्ताब्ददानस्य प्रभोर्दीक्षाभिषेचनम् । शक्राद्यैरमरैर्नन्दिवर्द्धनाद्यैर्नृपैः कृतम् ॥३४७॥ मनसा वचसा चाथ शिबिके धुनराधिपौ । कारयामासतुर्बिम्बप्रतिबिम्बनिभे शुभे ॥३४८॥ प्रभोः प्रभावादेकस्यां ममज्ज शिबिकाऽपरा । लीना तारेव तारायां भवस्योत्पातकारणम् ॥३४९॥ नरदेवैश्च देवैश्च वाह्यामारुह्य तां प्रभुः । दूरान्मुक्तिमिव द्रष्टुं सिंहासनमभूषयत् ॥३५०॥ प्राङ्मुखस्थ: सेव्यमानो देवदानवमानवैः । राजद्राजकुलस्त्रैणधृतच्छत्रादिलाञ्छनः ॥३५१।। दिव्यतूर्यस्वनाहूताऽस्तोकलोकमुदप्रदः । ज्ञातखण्डवनं नाम तरुखण्डमगात् प्रभुः ॥३५२॥ [युग्मम्] प्रभोर्यानावतीर्णस्य मण्डनादिमुचो न्यधात् । हरिरंसेंऽशुकं दिव्यं पावित्र्यस्येव वर्णिकाम् ॥३५३।। द्वारि चारित्रसम्राजः सुतां वोढुस्तपःश्रियम् । क्षिप्तं धृत्येव तद् दुष्यं जिनस्यांसेऽत्यशोभत ॥३५४॥ पञ्चभिर्मुष्टिभिः केशान् दुष्कर्माणि व्रतैरिव । तदोद्दधे प्रभुस्तांश्च क्षीराब्धौ हरिरक्षिपत् ॥३५५॥ ततो निषिद्धे लोकानां शक्रेण तुमुलेऽतुले । यामेऽश्चरमे स्वामी कृतसिद्धनमस्कृतिः ॥३५६॥ सहे दशम्यां श्यामायां सोमे हस्तोत्तराचरे । षष्ठेन स व्रतं भेजे मनःपर्यायमाप च ॥३५७॥ [युग्मम्]
15
20
25
१. दृष्टो P। २. गृहे A, C । ३. भविष्योत्पातकारणम् KH, H, B | ४. रेजे जिनवरांसगम् । P।
टि. 1. अनासक्तः इत्यर्थ । 2. यथा दावभिदे प्राप्तः तोयदः तरौ तडितं (क्षिपति) तथा शोकछिदे ध्यातः भ्रातर ! कथं मयि (तडितं) क्षिपसि इति अन्वयः । 3. भवस्य शुभत्वात् पक्षे जगत: अपशकुनत्वात् विनाशस्य कारणम् । 4. सहे-मार्गशीर्षे इत्यर्थः ।