________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] यत्रेहक् प्रभुरुत्पन्न: सा न वन्द्या किमद्य भूः । प्रणिपेतुरितीवास्यां शिरांसि कुलभूभृताम् ॥३०७॥ किमेतदित्यथ ध्यायन् मत्वा लीलायितं प्रभोः । हरिनिन्दन् कुतर्कं स्वं मिथ्यादुष्कृतमाचरन् ॥३०८॥ अथो यथाविधि स्नात्रपूजारात्रिककर्मठः । उक्त्वा शक्रस्तवं शक्रो देव्याः पार्वेऽनयत् प्रभुम् ॥३०९॥ युग्मम् ॥ हत्वावस्वापिनी मातुः प्रभोः प्रतिकृति च ताम् । हरिरुच्छीर्षके क्षौमं कुण्डले चामुचत् प्रभोः ॥३१०॥ श्रीदामगेन्दुकं दृश्यमुपर्यङ्गुष्ठके पुनः । शक्रः सुधारसं न्यस्य कृतकृत्यो दिवं ययौ ॥३११।। पुरेऽत्र प्रभुपुण्याब्धिच्छटोज्ज्वलजने किल । ववृषुर्वसुधाराभिः प्रकामं जृम्भकामराः ॥३१२॥ योऽभूद् विश्वत्रयस्यापि प्रमोदः प्रभुजन्मना । चूलासीत् क्वापि तस्यापि कृते राज्ञा महोत्सवे ॥३१३।। ववृधे स्म कुलं गर्भस्थितेऽप्यस्मिन् विभूतिभिः । इतीशितुः पिता नाम वर्द्धमान इति व्यधात् ॥३१४॥ उपसर्गेनिसर्गोग्रैर्न कम्प्योऽयमिति व्यधात् । द्वितीयकं हरिर्नाम महावीर इतीशितुः ॥३१५॥ इच्छारूपधरैर्भक्त्या सेव्यमानः सुरासुरैः । अष्टोत्तरसहस्रात्मलक्षणो ववृधे विभुः ॥३१६॥ न्यूनाष्टवत्सरः साकं सवयोभिः कुमारकैः । वयोनुरूपया स्वामी क्रीडितुं क्रीडया ययौ ॥१७॥ मध्येविश्वं महावीर इव धीरोऽस्ति न क्वचित् । तदा पाकारिणाऽकारि सदसीति प्रभुस्तुतिः ॥३१८॥ स्तुति कोऽप्यसहिष्णुस्तां सुरः क्षोभयितुं प्रभुम् । काममामलकीकेलिमाचरन्तमुपाययौ ॥३१९॥
मृत्युखड्गवदुत्तुङ्गभुजङ्गीभूय स स्थितः । क्रीडातरुतलेऽन्ये च कुमारास्तत्र तत्रसुः ॥३२०॥ 15 क्रीडापशकुनं पाणौ तमादाय विभुर्विभीः । दूरे मूर्तं सुहृत्सङ्गावरणीयमिवाक्षिपत् ॥३२१॥
ते कुमारा धृतव्रीडाः क्रीडार्थं पुनराययुः । कुमारीभूय भूयोऽपि सोऽप्यायातः सुरः पुनः ॥३२२॥ सर्वेभ्यः पूर्वमारोहेच्चूलामुर्वीरुहोऽस्य यः । सोऽन्यान् वाहवदारुह्य वाहयेदिति निर्णयात् ॥३२३॥ ते सर्वे तरुमारोहन् प्राग् तेभ्योऽग्रशिखां विभुः । लोकाग्रं लीलया भर्तुर्यास्यतो वा किमद्भुतम् ॥३२४॥
प्रभुर्वाह्यवदारुह्य कुमारानथ वाहयन् । पृष्ठं सुरकुमारस्याप्यारुरोह कुतूहली ॥३२५।। 20 अथ प्रोत्तालवेतालकरालं स्वं विधाय सः । नाभौ नदेऽम्बुजीकर्तुमिवादित्यमवर्धत ॥३२६॥
नाथेनाथ जगद्वीरान् क्षोभयन्निर्भयेन सः । वर्धिष्णुः पर्वतस्पर्धी खवितो मुष्टिताडनात् ॥३२७॥ इति धैर्यं सहस्राक्षाख्यातं साक्षान्निरीक्ष्य सः । प्रभुं सुरः स्वरूपेण नत्वा स्वाश्रयमाश्रयत् ॥३२८॥ उपोपाध्यायमानीते पित्राथ त्रिजगद्गुरौ । हरे: पीठमनौचित्याचरणेनेव कम्पितम् ॥३२९॥
मत्वावधेस्तमविधि गत्वा नत्वा च जिष्णुना । पृष्टोऽध्यास्य गुरोः पीठं शब्दविद्यां जगौ प्रभुः ॥३३०॥ 25 इन्द्रायेदं जिनेन्द्रेणोपदिष्टमिति विष्टपे । ऐन्द्राख्यं तदुपाध्यायोऽख्यापयत् शब्दशासनम् ॥३३१॥
सप्तहस्तमितः स्वामी पर्यस्तमितशैशवः । ततोऽधत्त क्रमादङ्गमनङ्गभ्रमदङ्गनम् ॥३३२॥
१. ०छटविल. P, L, K। २. हि सः P। ३. नाभिकूपे- P। ४. निशाकरः - C, LI
टि. 1. विगता भी: यस्माद् विभीः इति समासविग्रहः । 2. अनङ्गभ्रमदङ्गनम्-अनङ्गस्य भ्रमद् अङ्गनं-वाहनम्, प्रभोरङ्गस्य विशेषणम्।