________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] श्यामाश्विनत्रयोदश्यामिन्दौ हस्तोत्तराचरे । न्यधत्त त्रिशलागर्भे निभृतं स ऋभुर्विभुम् ॥२८२॥ गजो वृषो हरिर्लक्ष्मीः स्रक्चन्द्रार्कमहाध्वजाः । सम्पूर्णकलश: पद्मपूरपूर्ण सरोऽम्बुधिः ॥२८३॥ विमानं रत्नसन्तानं निधूमोऽग्निरिति क्रमात् । त्रिशला विशतः स्वप्नान् ददर्शास्ये चतुर्दश ॥२८४॥ [युग्मम्] इन्दै राज्ञा च तज्ज्ञैश्च सर्वज्ञजनिलक्षणे । ख्याते स्वप्नफले देवी दधौ सा मुदमद्भुताम् ॥२८५॥ अवर्द्धन्त निधानानि महान्तोऽप्यनमन्नृपाः । प्रभौ गर्भस्थिते वृद्धि सिद्धार्थस्याभजत् कुलम् ॥२८६॥ 5 मातुरातुरता मा भून्मम स्पन्दैरिति प्रभुः । गर्भेऽस्थान्निभृतं योगवर्णिकामिव दर्शयन् ॥२८७॥ प्रभोरङ्गातिनैश्चल्याच्चकिता त्रिशला ततः । दध्यौ किं गलितो गर्भो हृतः पिष्टोऽथ केनचित् ॥२८८॥ यद्येवं तदभाग्याया जीवितेनापि किं मम । इति देवी रुरोदैव दैवोपलम्भिनी मुहुः ॥२८९॥ श्रीसिद्धार्थोऽपि मत्वेदं खेदं सत्रासमासदत् । तदपत्ये च ते नन्दिवर्द्धनोऽथ सुदर्शना ॥२९०॥ तद्विज्ञाय प्रभुर्गर्भज्ञापनायाङ्गलीदलम् । अचालयच्च माता च मुदिताऽमोदयन्न कम् ? ॥२९॥ ज्ञानत्रयोदधिः स्वामी पित्रोः स्नेहं निरीक्ष्य तम् । सप्तमे मासि गर्भस्थो जग्राहाभिग्रहं हृदि ॥२९२॥ अहं परिव्रजिष्यामि न पित्रोः खलु जीवतोः । बध्नीतो मद्वियोगार्तिध्यानात्कर्माशुभं ह्यम् ॥२९३॥ अथाशासु प्रसन्नासु मारुते लब्धचारुते । उच्चस्थेषु ग्रहेषूच्चैर्मुन्मये भुवनत्रये ॥२९४॥ मधौ शुक्लत्रयोदश्यां विधौ हस्तोत्तराचरे । सुषुवे स्वामिनी स्वर्णवर्ण सिंहाङ्कमङ्गजम् ॥२९५॥ [युग्मम्] एत्य भोगङ्कराद्याः षट्पञ्चाशद्दिक्कुमारिकाः । जिने जिनजनन्यां च सूतिकर्माणि निर्ममुः ॥२९६॥ मत्वार्हज्जन्म तत्कालं शक्रोऽप्यासनकम्पतः । एत्य सूतिगृहं स्वामिस्वाम्यम्बे दूरतोऽनमत् ॥२९७।। उपसृत्य ततो मातुर्दत्त्वावस्वापिनीं हरिः । पार्वेऽस्या विश्वनाथस्य प्रतिरूपं न्यवेशयत् ॥२९८॥ विधाय पञ्चधात्मानं पञ्चत्वायाऽऽत्मपाप्मनाम् । अधत्ताऽथ जगन्नाथमेकोऽङ्के नाकिनां पतिः ॥२९९॥ एको मूनि दधौ छत्रं चामरे पार्श्वयोरुभौ । एकः प्रभोः पुरो वज्रं सामोदमुदलालयत् ॥३००॥ स पाण्डुकम्बलाख्यायां शिलायां मेरुमूर्द्धनि । गत्वाऽभूषयदङ्कस्थजिनः सिंहासनं हरिः ॥३०१॥ 20 त्रिषष्टिरपरेऽपीन्द्रास्तीर्थाहृतपयश्चयाः । ईयुजिनजनुःस्नानकृतेऽहम्पूर्विका जवात् ॥३०२॥ जिनेन्दुर्योजनास्येभ्यः कलशेभ्यः पतत्पयः । कृशाकृतिः कथं सोढेत्यशङ्कत तदा हरिः ॥३०३॥ प्रभुस्तभ्रमभङ्गायाङ्गुल्या मेरुमपीडयत् । तच्छक्तिविस्मितस्येव शिरोभिस्तस्य कम्पितम् ॥३०॥ प्रभुपादाग्रसंस्पर्शपूतस्य सुरभूभृतः । सङ्गेन सुभगम्मन्याऽनृत्यत् कम्पच्छलादिला ॥३०५॥ उच्छलन्ति स्म कल्लोला दूरं कल्लोलमालिनाम् । शैलोपरि मुखं भर्तुर्वीक्ष्येव विधुबन्धुरम् ॥३०६॥ 25
15
१. 'ह्यमू:' P, L, A, B, D । २. अल्पाकृति: K, DI टि. 1. ऋभुः (पुं)-देवः । 2. जनुस् (नपुं)०जन्म ।