________________
[ कणिकासमन्विता उपदेशमाला । गाथा- ३ ] तद्विप्रयोगात्प्रव्रज्य प्रययावचलः शिवम् | बभूव नरकोद्वृत्तः केशवस्तु स केशरी ॥ १५८ ॥ पूर्णायुः स हरिः पृथ्वीं चतुर्थी पुनरप्यगात् । बभ्राम च भवान् भूरीन् स तिर्यग्मनुजादिकान् ॥१५९॥ अवाप्य मानवं जन्म स कालपरिणामतः । कृतदुष्कर्मनिर्मन्थं धर्मकर्म विनिर्ममे ॥ १६० ॥ अपरेषु विदेहेषु सोऽथ मूकापुरीपतेः । धनञ्जयस्य कामिन्या धारिण्याः कुक्षिमासदत् ॥१६१॥ ततश्चतुर्दशस्वप्नसूचितः सुषुवे सुतः । तया चारित्रलक्ष्म्येव केवलाभ्युदयोऽद्भुतः ॥ १६२॥ प्रियमित्र इति ख्यातिं पितरौ तस्य तेनतुः । यौवनं नाम कामस्य धाम भेजे च स क्रमात् ॥१६३॥ प्रियमित्रमथ न्यस्य राज्ये राजा धनञ्जयः । धर्मद्रुमसुधां दीक्षां भेजे भवदवाकुलः ॥१६४॥ प्रियमित्रस्य भूरक्षाचतुरस्य चतुर्दश । उदपद्यन्त रत्नानि चक्रमुख्यानि च क्रमात् ॥१६५॥ अथ दिक्जैत्रयात्रोऽसौऽचलच्चक्रपथानुगः । षट्खण्डविजयं प्राप भरतं भरतो यथा ॥१६६॥ ततो लब्ध्वा नवनिधीनधीनविजयावनिः । चक्री चिक्रीड चक्रानुचारी मूकापुरीमनु ॥१६७॥ अमुं देवा नृदेवाश्च हर्षाश्रुजलमिश्रितैः । द्वादशाब्दीमभ्यषिञ्चन् चक्रित्वे तीर्थवारिभिः ॥१६८॥ रक्षतस्तस्य षट्खण्डां महीं गृहमिवाज्ञया । कदाचित्पोट्टिलाचार्यः पुरान्ते समवासरत् ॥१६९॥ धर्मतत्त्वं ततः श्रुत्वा कृत्वा राज्येऽङ्गजं निजम् । प्रव्रज्य नृपकोटीरो वर्षकोटीमधात्तपः ॥ १७० ॥ पूर्वलक्षा चतुरशीत्यायुः संन्यासतो मृतः । गीर्वाणोऽजनि सर्वार्थविमाने शुक्रमण्डने ॥ १७१ ॥ 15 च्युत्वेह भरते भद्राकुक्षिभूर्नन्दनाभिधः । छत्राख्यनगरभर्तुर्जितशत्रोः सुतोऽभवत् ॥१७२॥
राज्ये न्यस्य युवानं तं नन्दनं मेदिनीपतिः । वैराग्यवारिसिक्तोऽभूद् व्रतव्रततिभूरुहः ॥ १७३॥ जितशत्रुतनूजस्य कृतपूजस्य पार्थिवैः । आसीदाज्ञाकरी तस्य सतीव जगतीवधूः ॥१७४॥ ततोऽतीत्य चतुर्विंशत्यब्दलक्षीं स जन्मतः । प्रव्रज्यां पोट्टिलाचार्यपदोपान्ते समाददे ॥१७५॥ मासोपवासैः स वपुर्लघूकुर्वन्निवान्वहम् । नित्योदितविहारोऽभूद् भवारण्यं विलङ्घितुम् ॥१७६॥ भूषयन् क्रियया ज्ञानं ज्ञानेन द्योतयन्मनः । मनसा लासयन् ध्यानं ध्यानेनाभिभवन् भवम् ॥१७७॥ परीषहसहस्राणामप्यसह्यपरीषहः । स दुःखसुखयोस्तुल्यो वर्षलक्षं व्यधात् तपः ॥१७८॥ युग्मम् ॥ विंशत्यापि तपोराशिरर्हद्भक्त्यादिभिः शुभैः । स्थानैः संप्राप दुष्प्रापं तीर्थकृन्नामकर्म सः ॥१७९॥ मूलतोऽप्यकलङ्कात्मश्रामण्यमभिपाल्य सः । इत्थमाराधनावर्यं पर्यन्तसमयं व्यधात् ॥१८०॥ अर्हद्भट्टारकं देवं धर्माचारगुरुं गुरुम् । अभेदबुद्ध्याऽनुध्यायाऽऽतनोम्याराधनामहम् ॥१८१॥ 25 व्रतान्यालोचना पापगर्हा श्रेयोऽनुमोदनम् । क्षामणार्नशनं पापस्थानोत्सर्गः सुभावनाः ॥१८२॥ चतुःशरणसम्प्राप्तिः परमेष्ठिनमस्कृतिः । महोदयकरी सेति दशधाराधनाऽस्तु मे ॥ १८३॥ युग्मम् ॥
I
5
10
20
४०
१. परिग्रहः K । २ ० त्मा श्रामण्य० K, DI
टि. 1. व्रततिः (स्त्री) = लता । 2. नन्दनमुनेः अन्तिमाराधना श्लोक - १८१ त २५८ पर्यन्तम् ।